________________
१६८
अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
® गादाधरी न च व्यभिचारविशिष्टमेयत्वादेहेत्वाभासत्वविरहात् हेत्वाभासविभाजकरूपेण स्वसजातीयाऽप्रसिद्धया तस्य स्वपदेनोपादातुमशक्यत्वात् मेयत्वविशिष्ट व्यभिचारत्वादिकमेव स्वपदेनोपादेयम् , तस्य शुद्धव्यभिचाराद्यभिनतया व्यभिचारत्वादिरूपहेत्वाभासविभाजकरूपेण तत्सजातीयप्रसिद्ध रिति तदविषयकप्रतीतिविषयत्वस्य व्यभिचारविशिष्ट मेयत्वादौ सत्वात्तत्रातिप्रसङ्ग इति वाच्यम् , विशिष्टान्तराऽघटितत्वेनाऽघटितस्य विशिष्टसाध्यसाधनग्रहाऽविरोधि
* चन्द्रकला* धर्तव्यतया तदवच्छिन्नाऽविषयकप्रतीति विषयतावच्छेदकतायाः व्यभिचारविशिष्टमेय. त्वत्वे वर्तमानत्वात् तादृशावच्छेदकीभूतव्यभिचारविशिष्टमेयत्वत्वरूपयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामनपायादित्याशंकते नचेति । वाच्यमितिपरेणान्वयः । तस्य = व्यभिचारविशिष्टमेयत्वत्वस्य ।
प्रमेयत्वविशिष्ट व्यभिचारे हेत्वाभासविभाजकव्यभिचारत्वसत्त्वं स्फुटीकरोति तस्येत्यादि । प्रमेयत्वविशिष्टव्यभिचारत्वस्येत्यर्थः । तत्रातिप्रसंग इति । प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयावच्छेदकयद्रूपपदेन व्यभि. चारविशिष्ट मेयत्वत्वस्योपादातुं शक्यत्वादितिभावः।
हेत्वाभासविभाजकधर्ममध्ये व्यभिचारत्वं न साध्याभाववद्वृत्तित्वादिविशिष्टहेतुतावच्छेदकरूपमपितु साध्यतावच्छेदकविशिष्टसाध्यग्रहत्वाऽव्यापिका साधनतावच्छेदकविशिष्टसाधनग्रहत्वाऽव्यापिका च या प्रकृतव्याप्ति ग्रहत्वव्यापिका प्रतिबध्यता तन्निरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकरूपवत्त्वम् , तच्च रूपं यथा प्रमेयत्वविशिष्टव्यभिचारत्वादिकं तथा व्यभिचारविशिष्टप्रमेयत्वत्वमपि । तथा च व्यभिचारविशिष्ट मेयत्वादावपि तादृशव्यभिचारत्वरूपहेत्वाभासविभाजकरूपप्रसिद्धया स्वपदेन तादृशमेयत्वत्वादेरुपादानसम्भवान्न व्यभिचारविशिष्टमेयत्वेऽतिव्याप्तिरित्येवं समाधत्ते विशिष्टान्तरेति । विशिष्टान्तराऽघटितत्वविशेषणशून्यस्येत्यर्थः ।
8 कलाविलासः विशिष्टान्तराऽघटितत्वेनेति । अत्र धूमवान् अवृत्तिवढेरित्यादौ धूमाभाववद्वृत्तिवह्निरूपव्यभिचारेऽव्याप्तिः, निरुक्तव्यभिचारस्य व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविपयिताकत्वेन व्यभिचारसजातीयवृत्तिवह्निरूपसाधनाऽप्रसिद्विघटितत्वादतः साधनम्रहाऽविरोधित्वनिवेशः। एवं अवृत्तियतिकालीनधूमवान् वर्तरित्योदावपि
"Aho Shrutgyanam"