________________
चन्द्रकला - कलाविलासापटीकाद्वयोपेतम्
ॐ गादावरी
वक्षणेन अनुयोगिनि स्वत्वानन्तर्भावेण पदार्थान्तरेषु अतिप्रसङ्गवारकतया तद्दल सार्थक्यात् ।
१६७
* चन्द्रकला *
विषयतावच्छेदकद्र पावच्छिन्न विषयकनिश्चयोत्तराऽनुमितिसामान्ये तादृश निश्चयीयविरोधिविषयिताप्रयुक्तोभयाभावस्तद्र पवत्त्वमितिवक्ष्यमाणात्रवदन्ति कल्पोक्तलक्षणस्य चार्थः पर्यवसितः ।
तथाच न विरोधिविषयिताप्रयुक्तत्वदलानुक्तौ घटादावतिव्याप्तिदानाऽनुरपत्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वरूपत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्वाश्रयत्रत्तिहेत्वाभासविभाजकरूपसमानाधिकरणं यद् व्यभिचारत्वं तदवच्छिन्नविषयकप्रतीतिविषयतावच्छेदकस्वात्मकप्रमेयत्व विशिष्ट व्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रूपपदेन घटत्वादेरुपादानसम्भवात् ।
अत एव तादृशयद्रूपवत्त्वमात्रोक्तौ घटादावतिव्याप्तिः स्यादतो यद्रूपावच्छिन्नविषयकनिश्चयत्वेत्यादिना विशेष्यदलमभिहितम् । एवञ्च हृदो वह्निमानित्यादौ प्रमेयत्वविशिष्टबाधत्वादिकमेव स्वपदेनोपादाय लक्षणसमन्वयः स्वयमूहनीयः । प्रमेयत्वविशिष्टव्यभिचारत्वस्य स्वपदेनोपादानात् तादृशस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रपपदेन तस्योपादानाऽसम्भवान्न प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिरिति तु तत्त्वम् । विवक्षयेति । विशिष्टान्तरघटितं यत् स्वं तदघटितत्वेनेत्यादिः । अनुयोगिनीति स्वसजातीयविशिष्यन्तराघटितत्यरूपाभावानुयोगिकोटावेव पूर्वकल्पे स्वत्व - स्य प्रवेशः, अत्रतु स्वसजातीयविशिष्टान्तरघटितं यत् स्वं तदघटितत्वरूपाभावप्रतियोगिकोटावेव स्वत्वस्य प्रवेश इति तात्पर्यम् ।
I
पदार्थान्तरेषु = घयद्युदासीनेषु । तद्दलेति विरोधिविषयिताप्रयुक्तत्वद लेत्यर्थकम् । बाधविशिष्टव्यभिचा रत्वरूपस्त्राश्रयवृत्तिहेत्वाभासविभाजकरूासमानाधिकरण यद् व्यभिचारत्वं तदवच्छिन्न विषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्व विशिष्टव्यमिचारत्व इव बाधविशिष्टव्यभिचारत्वेऽप्यक्षतत्वात् प्रतियोगिनि स्वत्वान्तर्भाविकल्पे स्वपदेन वाघविशिष्ट व्यभिचारत्वस्याप्युपादातुं शक्यतया न बाधविशिष्टव्यभिचारेऽतिव्यासि: शंक्येतिध्येयम् ।
ननु प्रतियोगिनि स्वत्वान्तर्भावपक्षे प्रमेयत्वविशिष्टव्यभिचारादावतिव्याप्तिवारसम्भवेऽपि व्यभिचारविशिष्टमेयत्वेऽतिव्याप्तिवारणमशक्यं स्यात्, व्यभिचार विशिष्टप्रमेयत्वत्वाश्रये व्यभिचारविशिष्टप्रमेयत्वे हेत्वाभासविभाजकधर्माऽप्रसिद्ध्या स्वपदेन व्यभिचारविशिष्टमेयत्वत्वादेरुपादानाऽसम्भवात् प्रमेयत्वव्यभिचारत्वस्यैव स्वपदेन
"Aho Shrutgyanam"