________________
१७२
अनुमानगादार्या सामान्यनिरुक्तिप्रकरणम्
* दीधितिः *
तेन प्रमेयत्वादिविशिष्टे व्यभिचारादौ नातिप्रसङ्गः ।
___ * गादाधरी * मेयत्वविशिष्ट व्यभिचारादौ = ताशव्यभिचारत्वाद्यवच्छिन्ने, नातिप्रसङ्गः = न दोषत्वप्रसङ्गः । अत्र मेयत्वविशिष्टव्यभिचारो दोषः इत्यादिव्यवहाराभावान्नेष्टापत्तिः सम्भवति ।
न च विशिष्टव्यभिचारादौ शुद्धव्यभिचारत्वादिना दोषत्वस्याक्षततयोक्तविशेषणदानेऽपि ताशुव्यवहारापत्तिदुर्वा रैवेति, तवेष्टापत्तौ च व्यर्थं विशेषणमिति वाच्यम् , दोषादि पदस्य निरुक्तविशेषणावच्छिन्नानुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्ननिरूपितविषयिताकत्वेनान्वयितावच्छेदक
* चन्द्रकला * ननु प्रमेयत्वविशिष्टव्यभिचारस्य दोषत्वमिष्टमेवेति विशिष्टान्तराऽघटितत्वविशेषणदानमनर्थकमित्यत आह अत्रेति । निरुक्तलक्षणे इत्यर्थः ।। __ननु व्यभिचारो दोष इति व्यवहारस्य प्रामाणिकतया प्रमेयत्वविशिष्टव्यभिचारो दोष इत्यस्यापि व्यवहारस्य प्रामाणिकत्वमवश्यमभ्युपगन्तव्यम् , तथाचेष्टापत्तौ विशिष्टान्तराऽघटितत्व विशेषणं व्यर्थ स्यादित्याशंक्य समाधत्ते दोषादिपदस्येति । दोषव्यवहारविषयस्येत्यादिः । निरुक्तति । स्वावच्छिन्नाऽविषयकप्रतीतिविपयतावच्छेदकप्रकृतानुभितिप्रतिब
ॐ कलाविलासः विशिष्टान्तरघटितत्वस्य तत्राऽसत्वात् इति चेन्न , यादृशस्थलविशेषे प्रमेयत्वविशिष्टव्यभिचारविपयकं ज्ञानं कदाचित् वह्नयभावविशिष्टहद विषयकमेव भवति कदाचिच्च वह्नित्वेन घटाद्यवगाहि वह्नयभाववद्धदविषयकमेव जायते नत्वनयोरन्यतरानवगाह्यपि भवति, तादृशस्थले प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तयापत्तेः, तादृशविशिष्टान्तरबाधघटितस्वात्मकबाधत्वावच्छिन्नाऽविषयकवह्नित्वेन घटावगाहिवह्नयभाववद्ध्रदविषयकप्रमेयत्वविशिष्टव्यभिचारविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचाररवेऽनपायादिति ध्येयम् ।
अथ हृदे वह्निसाधने धूमो दुष्ट इत्यादिवाश्यात् हृदविशेष्यकवह्निप्रकारकतादृशधूमप्रकारकानुभितिप्रतिबन्धकतानतिरिक्तवृत्तिस्वावेच्छिन्नविपयिताकधर्मावच्छिनसम्बन्धी धूम इत्याकारकबोधजननसम्भवेऽपि पर्वते वह्निसाधने धूमो न दुष्ट इत्यादिव्यवहारानुपपत्तिः, तादृशस्थले पर्वतविशेष्यकवलयादिप्रकारकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकधर्मस्यैवाप्रसिद्धतया तदवच्छिन्नसम्बन्धित्वा
"Aho Shrutgyanam"