________________
१६४ अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम्
* गादाधरी उक्तस्थले चाऽऽश्रयासिद्धिविषयकत्वस्य तदनिरूपित बाधविषयित्वानव. च्छिन्ना बा विशिष्ट पक्षग्रहप्रतिबन्धकता तदवच्छेदकत्वाल्लक्षण समन्वय इति परास्तम् । ___ यद्विषयकनिश्चयस्य विरोधिविपयिताप्रयुक्त इत्यादिनिष्कृष्टकल्पे अनुमितिप्रतिबन्धकताया अघटकत्वात् प्रतिबन्धकतायां विशिष्टान्तरविषयकस्वानवच्छिन्नत्वविशेषणदानस्याऽसम्भवेन यत्पदार्थस्यैव तादृशपदार्थान्तराऽघटितत्वेन विशेषणीयतयोक्तबाधाऽव्याप्त रशक्यपरिहारत्वात् । अत्र केचित् । स्वस जातीयविशिष्टान्तराऽघटितत्वमेव यत्पदार्थे देयम् ।
चन्द्रकला रूपधर्मवत्त्वस्य विशेषगुणवघंटरूपाश्रयाऽसिद्धावक्षतत्वादित्याह उक्तस्थल इति । विशेषगुणाभाववान् द्वितीयादिक्षणावच्छिन्नो घटो गुणसामान्याभाववानित्यादिस्थले इत्यर्थः ।
परास्तमिति । निरुक्तरीत्या विशिष्टान्तराऽघटितत्वसहितस्य प्रतिबन्धकताघटितलक्षणार्थस्य निर्वचने विशेषगुणवद्घटरूपाश्रयाऽसिद्धौ लक्षणसमन्वयसम्भवेऽपि धूमव्यभिचारिवह्निमान् धूमवान् बढेरित्यादौ धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपबाधे अव्याप्तिवारणमशक्यम् , तादृशपक्षसाध्यकसाध्यव्याप्य हेतुप्रकारकज्ञानस्याहार्यतया ता. दृशानुमितेरप्रसिद्धयाऽनुमितिप्रतिबन्धकताघटितलक्षणस्य ताशबाधे सत्त्वाऽसम्भवात् , निरुक्तरीत्या लक्षणार्थनिर्वचनस्यानावश्यकत्वात् वक्ष्यमाणात्रवदन्तिकल्पोक्तलक्षणेनैव सर्वसामञ्जस्यादिति भावः ।
निष्कृष्ट कल्पे--अत्रवदन्तीत्यादिनाभिहितलक्षणे, यत्पदार्थस्यैव-लक्ष्यतावच्छेदकयद्पपदार्थस्यैव । तादृशेति स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतललक्षणाश्रयीभूतधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वेनेत्यर्थः । उक्तबाधेति धूमव्यभिचारिवह्निमान् धूमवान् वढेरित्यादिस्थलीयबाधार्थकम् । निरुक्तस्थलीयबाधत्वस्य तादृशविशिष्टान्तरतावच्छेदकव्यभिचारत्वावच्छिन्नविषयकप्रतीतिविषयतावच्छेदकत्वादित्याशयः।
प्रकारान्तरेण विशिष्टान्तराऽघटितत्वं निवेश्य धूमाभाववद्धुमव्यभिचारिवह्निमद्रूपबाधेऽव्याप्ति वारयतां मतं दूषयितुमुपन्यस्यति केचिदिति । पाहुरितिपरेणान्धयः । स्वसजातीयेति पत्र स्वपदं लक्ष्यतावच्छेदकत्वेनाभिमतधर्मपरं नतु लक्ष्यीभूत
* कलाविलासः * स्वसजातीयेति । अत्र कल्पे अनुयोगिनि स्वत्वान्तर्भावमते अत्रवदन्त्युक्तलक्षघटकविरोधिविषयिताप्रयुक्तत्वदलस्य व्यर्थत्वमाशंकितं भट्टाचार्येण, तत् कथं
"Aho Shrutgyanam"