________________
चन्द्रकला कलाविलासाख्य टीकाद्वयोपेतम्
* गादाधरी
तावच्छेदकस्वावच्छिन्नविषयिताको यो धर्मस्तद्वत्त्वं समुदितलक्षणार्थः । प्रमेयत्वविशिष्टव्यभिचारत्वादिकं नैतादृशं स्वम्, तदवच्छिन्नानिरूपितशुव्यभिचारत्वाद्यवच्छिन्न विषयित्वावच्छिन्नायामेव प्रतिबन्धकतायां तदवच्छिन्नविषयिताया अवच्छेदकत्वात् ।
१६३
* चन्द्रकला *
तदव्यापकीभूतायाः प्रकृतानुमितिप्रतिबन्धकताया अवच्छेदिका स्वावच्छिन्ननिरूपिता विषयिता यस्य स्वस्य एवम्भूतस्वात्मकधर्मवत्त्वं लक्षणार्थः समुदित इत्यर्थः ।
धूमवान् वह्नेरित्यादौ धूमाभाववद्वृत्तित्वविशिष्टवह्नित्वरूपव्यभिचारत्वाद्यवच्छिन्नाऽनिरूपितत्राधादिविशिष्ट विषयित्वानवच्छिन्न व्याप्तिग्रहप्रतिबन्धकतावच्छेदकतादृशव्यभिचारत्वरूपस्वावच्छिन्न विषयिताकधूमाभाववद्वृत्तित्वविशिष्टवह्नित्वरूपधर्मवत्त्वस्य ता- वह्निरूपव्यभिचारे सत्त्वात् व्यभिचारादौ लक्षणसमन्वयः । एवमन्यत्रापि ।
प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाः निरूपित केवलव्यभिचारात्मकविशिष्टविषयित्वा व्यापकत्वरूपतादृश विशिष्ट विषयित्वानवच्छिन्नायां बाधादिनिश्चयनिष्ठायां साध्यानुमितिप्रतिबन्धकतायां अवच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्ननिरूपितविषयितायामभावात्प्रमेयत्वविशिष्टव्यभिचारत्वस्य स्वपदेन वर्त्तुमशक्यत्वान्न प्रमेयत्व विशष्टव्यभिचारेऽतिव्यातिरित्याह नैतादृशं स्वमित्यादि । निरुक्तलक्षणाक्रान्तं नैतादृशं स्वमित्यर्थः ।
तदवच्छिन्नेति । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयिताया इत्यर्थः । अवच्छेदकत्वादिति । व्यभिचारविषयित्वानवच्छिन्नायान्तु प्रकृतानुमितिप्रतिबन्धकतयां प्रमेयत्वविशिष्टव्यभिचारविषयिताया अवच्छेदकत्वमेव न सम्भवतीति कुतः स्वपदेन प्रमेयत्वविशिष्टव्यमिचारत्वस्योपादानमिति हृदयम् ।
नवा बाधविशिष्टव्यभिचारेऽप्यतिव्याप्तिः, बावविशिष्टव्यभिचारत्वरूप स्वावच्छिनाऽनिरूपित केवलवावविषयित्वानवच्छिन्नायां केवलव्यभिचारविषयित्वानवच्छिन्नायां वा प्रतिबन्धकतायां अवच्छेदकत्वस्य बाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितायां विषयितायामसत्त्वेन स्वपदेन बाधविशिष्टव्यभिचारत्वस्योपादानाऽसम्भवादिति तु विशेषगुणाभाववान् तत्त्वम् । घटो गुणसामान्याभाववानित्यत्राऽपि विशेषगुणवद्घटरूपाऽश्रयाऽसिद्धावव्याप्तिः, निरूपितगुणवद्घटरूपबाधविषयित्वावच्छिन्नपक्ष तावच्छेदकविशिष्ट पक्षग्रहप्रतिबन्धक
न
तादृशाश्रयासिद्धित्वरूपस्वावच्छिन्ना
ताया अवच्छेदकीभूततादृशाश्रयाऽसिद्धित्वावच्छिन्ननिरूपितविषयिताकाश्रयासिद्धित्व
"Aho Shrutgyanam"