________________
१६२
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
8 गादाधरी दिरूपाऽऽश्रयासिद्धथादिविषयकत्वावच्छिन्नविशिष्टपक्षाग्रहादिनिरूपितयत्किश्चित्प्रतिबन्धकताच्छेदकविषयिताकविशिष्टनिरूपितविषयितात्वस्य तादृशाश्रयासिद्धथादिनिरूपितत्वव्याप्यत्वात्तत्र लक्षण समन्वयः । प्रतिबन्धकतायां यावत्त्वानिवेशान्नोक्तरीत्या बाधविशिष्टव्यभिचारादावतिप्रसङ्गः । स्वावच्छिन्नाऽनिरूपितविशिष्टविषयित्वानवच्छिन्न यत्किंचित्प्रतिबन्धक
ॐ चन्द्रकला ननु पूर्वोक्ततृतीयादिनचकल्पवदत्रापि कल्पे बाधविशिष्टव्यभिचारे कथं नातिव्याप्तिरित्यत आह प्रतिबन्धकतायामिति । लक्षणघटकीभूतायामित्यादिः । तथा च वाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नयत्किञ्चिद्व्याप्तिग्रहप्रतिबन्धकतावच्छेदकविषयिताकशुद्धव्यभिचारनिरूपितविषयितायां वाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूप्यताया अभावात् तादृशविषयितात्वव्यापकनिरूप्यताकपदेन बाधविशिष्टव्यभिचारत्वस्योपादातुमशक्यत्वान्न बाधविशिष्टव्यभिचारेऽतिव्याप्तिरितिभावः।
यावत्त्वानिवेशादिति । प्रतिबन्धकतायां यावत्त्वनिवेशे तु बाधविशिष्ट व्यभिचा. रेऽतिव्याप्तिःस्यात् , ताशयावत्प्रतिबन्धकतावच्छेदकविषयिताकविशिष्ट निरूपितविषयितात्वस्य बाधविशिष्टव्यभिचारविषयितायामेव सत्त्वेन तत्र बाधविशिष्टव्यभिचारत्वावच्छिन्न निरूप्यताया आवश्यकत्वात् , बाधविशिष्टव्यभिचारत्वस्यैव स्वपदग्राह्यत्वसम्भवादिति परमार्थः ।
निरुक्ताऽश्रयासिद्धाकव्याप्तिवारणाय लक्षणान्तरमायाह स्वावच्छिन्नेति । स्वं लश्यतावच्छेदकत्वेनाभिमतो धर्मः एवञ्च स्वावच्छिन्नाऽनिरूपिता या विशिष्टविषयिता
& कलाविलासः ७ स्वावच्छिन्नाऽनिरूपितेति । यद्यद्धर्मावच्छिन्ननिरूपिता विषयिता लचयतावच्छेदकत्वेनाभिमतस्वावच्छिन्नाऽनिरूपिता भवति तत्तद्धर्मावच्छिन्ननिरूपितविषयिताव्यापकप्रतिवन्धकताभिन्ना या प्रकृतानुमितिप्रतिबन्धकता तादृशस्वावच्छिन्ननिरूपितविषयित्वव्यापिकेति निरुक्तलक्षणार्थःपर्यवसितः । व्यावृत्यादिकन्तु पूर्ववदेवानुसन्धेयम् । __ तथाच धर्मविशिष्टधर्मवत्वं हेत्वाभासत्वम्, वैशिष्ट्यञ्च स्वतादात्म्य-स्वविशिष्टविषयितानिरूपकतावच्छेदकधर्मविशिष्टान्यप्रतिबन्धकतावृत्तित्वोभयसम्बन्धेन, स्ववैशिष्ट्यं विषयितायां स्वावच्छिन्ननिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्व-स्वावच्छिन्नविषयित्वाव्यापकीभूतविषयिताशून्यज्ञानीयत्वोभयसबन्धेन, धर्मवैशिष्ट्यञ्च स्वावच्छिन्नविषयित्वव्यापकत्वसम्बन्धेन ।
"Aho Shrutgyanam"