________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् . १६१
____ * गादाधरी * प्रमेयत्वविशिष्टव्यभिचारत्वादिकं नैतादृशं स्वं, तदवच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकविषयिताकशुद्धव्यभिचारादिविषयितात्वस्य तदवच्छिन्ननिरूपितत्वाऽव्याप्यत्वात् । उक्तस्थले विशेषगुणविशिष्टघटा
ॐ चन्द्रकला 3 ह्रदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदस्वरूवाधत्वावच्छिन्नविषयकत्व व्यापकयकिश्चिद्वयनुमितिप्रतिबन्धकताया अवच्छेदकीभूतविषयिताकवह्नयभावविशिष्टहृदरूपविशिष्टनिरूपितवह्नयभावविशिष्ट हृदविषयितात्वव्यापकत्वस्य वह्नयभाववद्धदत्वरूपबाधत्वावच्छिन्ननिरूप्यतायां सत्वात् तादृशबाधत्वस्यैव स्वपदेन धत्त" शक्यतया वह्नयभावविशिष्टहृदादिरूपमाधादौ लक्षणसमन्वयः । एवमन्यत्रापि बोध्यः।
प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयक वव्यापकयकिश्चिद्व्याप्तिग्रहप्रतिबन्धकतावच्छेदकविषयितानिरूपककेवलव्यभिचाररूपविशिष्टनिरूपितविषयितायां प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूप्यताविरहेण तादृशविषयितात्वव्यापकस्वावच्छिन्ननिरूप्यताकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वेऽसत्त्वात् स्वपदेन प्रमेयत्वविशिष्टव्यभिचारत्वस्योपादानाऽसम्भवादिति प्रथमतो विशिष्टान्तराऽघटितत्वनिवेश
प्रयोजनकं प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणं दर्शयति प्रमेयत्वविशिष्टेति । : नैतादृशम् = न निरुक्तलक्षणाक्रान्तम् ।
कुत इत्याकांश्चायामाह तदवच्छिन्नेति । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नार्थकम् । अव्याप्यत्वादिति । तादृशविषयितात्वव्यापकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूप्यतायां विरहादित्याशयः। तादृशविषयितात्वसमानाधिकरणस्वावच्छिननिरूप्यताविवक्षणेऽपि प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिः, व्याप्तिग्रह प्रतिबन्धकतावच्छेदकविषयिताकप्रमेयत्वविशिष्टव्यभिचाररूपविशिष्टनिरूपितविषयिताल्ववत्याम् प्रमेयत्वविशिष्टव्यभिचारविषयितायां स्वात्मकप्रमेयत्वविशिष्ट व्यभिचारत्वावच्छिन्ननिरूप्यतायाःसत्त्वादतःस्वात्रच्छिन्ननिरूप्यतायां तादृशविषयितात्वव्यापकत्वनिवेशः ।
विशेषगुणाभाववान् द्वितीयादिक्षणावच्छिन्नो धयो गुणसामान्याभाववानित्यादावपि विशेषगुगवत्तादृशघटरूपाश्रयासिद्धौ नाव्यातिः, विशेषगुणवत्तादृशघटत्वादिरूपस्वावच्छिन्नविषयकत्वव्यापकयक्किञ्चित्यक्षतावच्छेदकविशिष्टपक्षग्रप्रतिबन्धकताया अ. वच्छेदकीभूतविषयिताकतादृशाश्रयाऽसिद्विरूपविशिष्ट निरूपितविषयितात्वव्यापकत्वस्य विशेषगुणवद्वितीयक्षणावच्छिन्नघटत्वरूपाश्रयासिद्धित्यावच्छिन्ननिरूप्यतायामशतत्वादित्याह उक्तस्थल इति । विशेषगुणाभाववान् घटो गुणसामान्याभाववानित्यादिस्थले इत्यर्थः ।
११
"Aho Shrutgyanam"