________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
६ गादाधरी
साजात्यं च हेत्वाभासविभाजकरूपेण । तच रूपं - बाधत्वव्यभिचारत्वादि,
विपरीतप्रमेयत्वविशिष्टव्यभिचारस्यैव
ॐ चन्द्रकला
पदार्थपरम्, तथासति व्यभिचारस्य प्रमेयत्वविशिष्टव्यभिचाराभिन्नतया तस्य विशिष्टान्तरत्वाऽनुपपत्त्या विशिष्टान्तरत्वेनोपादाय तदघटित प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः स्यात् एवञ्चाग्रेऽपि यत्पदार्थविशेषणमित्यस्य यद्रूपपदार्थविशेषणमित्येवमर्थः करणीय इति ध्येयम् ।
3
तथा च स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकोऽथच स्वाश्रयवृत्तिर्यो हेत्वाभास विभाजको धर्मः सामानाधिकरण्यसम्बन्धेन तद्विशिष्टं यद्रूपं तद्रूपावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तद्वत्त्वं हेत्वाभासत्वमिति समुदितलक्षणार्थः । अत्र कल्पे घटत्वाद्याश्रये घटादौ हेत्वाभासविभाजकधर्मस्य वर्त्तमानत्वाप्रसिद्धया स्वपदेन वटत्वस्योपादानाऽसम्भवात् तत्राऽतिव्याप्त्यप्रसक्त्या तादृशस्वावच्छिन्ननिश्चयत्वव्यापकेत्यादिना पृथक् विशेष्यदलस्य प्रयोजनं नास्तीति मन्तव्यम् ।
भवति हि हदों वह्निमानित्यादौ बाधादौ लक्षणसमन्वयः, वह्नयभावविशिष्टहृदत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यद् हृदवृत्तिवह्नयभावत्वरूपं विपरीतबाघत्वं वह्नयभावविशिष्टहृदत्वाश्रये तादृशहदे वर्त्तमानहेत्वाभासविभाजकी भूतबाधत्वरूपधर्मसमानाधिकरणं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकवह्नयभावविशिष्टहृदत्वरूपस्ववत्त्वस्य ववभाववद्भदरूपवा सच्चात् ।
प्रमेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वाश्रयवृत्तिहेत्वाभासविभाजकव्यभिचारत्वसामानाधिकरण्यस्य शुद्धव्यभिचारत्वे वर्त्तमानतया तस्वच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मिन् प्रमेयत्वविशिष्टव्यभिचारत्वे विरहात् ।
तश्च्च = हेत्वाभासविभाजकञ्च । नवा धूमव्यभिचारिवह्निमान् धूमवान् वलेरित्यादौ धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपचाधेऽव्याप्तिः तादृशबाघत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य धूमव्यभिचारिवह्नित्यादौ सच्चेऽपि तत्र तादृशV कलाविलासः छ
संगच्छते ? यद्विषयकनिश्चयस्य विरोधिविपयिताप्रयुक्तो मयाभाव इत्यादिसमुदायस्यैव व्यर्थत्वसम्भवादिति चेदत्र केचित् — श्रव्याप्यवृत्तित्वभ्रमाभावविशिष्टयद्विपयकनिश्चयस्य विषयिताप्रयुक्तस्तदुत्तरानुमितौ तादृशोभयाभाव इत्येतावन्मात्रस्य वि शेग्यदलस्य निवेशेनैव सामन्जस्ये विरोधिपदं व्यर्थमित्यस्यैवाभिधाने ग्रन्थतात्पर्यादिव्याहुः ।
१६५
" Aho Shrutgyanam"
च