________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी *
दनन्तर्भावादिति न तादृशाश्रयाऽसिद्धन्यसंग्रह प्रसङ्ग इत्युच्यते, तदापि विशेषगुणाभाववान् द्वितीयक्षणावच्छिन्नो घटो गुणसामान्याभाववानित्यादौ द्वितीयक्षणावच्छिन्ने घटे विशेषगुणवत्स्वरूपाश्रयासिद्धौ तदवच्छिन्ने घटे गुणवत्त्वरूपबाध प्रवेशस्यावश्यकत्वात्, लक्षणे च तत्संग्रहस्यावश्यकतया उक्तविशेषणदानानुपपत्तिः ।
१५६
ॐ चन्द्रकला
तदनन्तर्भावात् = आश्रयासिद्धयनन्तर्भावात् ।
इत्युच्यत इति । तथाच विशेषगुणवद्घटत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतायाः प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतायाश्च गुणवद्घटत्वरूपबाधत्वे सत्त्वेऽपि गुणत्वावच्छिन्न व्यापकता घटिततादृशगुणवषटरूपबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्व रूपविशिष्टान्तराऽघटितत्वस्यापि तत्र सत्त्रेन न विशेषगुणवद्घटरूपाश्रयासिद्धावव्याप्तिरिति तु परमार्थः ।
समाधत्ते तदापीति । निरुक्तस्थले आश्रयाऽसिद्धावव्याप्तिवारणेऽपीत्यर्थः । तदवच्छिन्ने = द्वितीयादिक्षणावचिछन्ने । तत्संग्रहस्य = विशेषगुणवद्घटरूपाश्रयासिद्धिसंग्रहस्य | तथाचैकस्मिन्नेव द्वितीयक्षणावच्छिन्ने घटे विशेषगुणवत्त्वम् आश्रयाऽसिद्धिः, - गुणवत्त्वञ्च बाधस्तथासति निरुक्तद्वितीयक्षणावच्छिन्न विशेषगुणवद्घटरूपाऽश्रयाऽसि द्वेर्गुणवद्वितीयक्षणावच्छिन्नघट रूप वाघघटितत्वाद्विशिष्टान्तराऽघटितत्व विशेषणोपादाने यथोक्ताश्रयासिद्धावव्याप्तिवारणमशक्यं स्यादित्याशयः ।
उक्तविशेषणेति । विशिष्टान्तराऽघटितत्व रूपविशेषणदानाऽनुपपत्तिरित्यर्थः । प्रतिबन्धकताघटितलक्षणस्य निर्वह्निः पर्वतो वह्निमानित्यादिस्थलीय दोषेऽव्यातिमुक्त्वा तद्वारणाय अग्रे दीधितिकृतैवात्रवदन्तिकल्पो वक्ष्यते, तादृशकल्पस्यैव निष्कृष्टता * कलाविलासः *
द्वितीयक्षणावच्छिन्न इति । देशकालाद्यवच्छिन्नतद्व्यक्तौ सामानाधिकरण्येनैव भावाभावयोविरोधित्वमित्याशयेनैवैतदभिहितमिति ध्येयम् ।
अथ पूर्वोक्तस्थल एव वैपरीत्येन गुणसामान्याभाववान् घटो विशेषगुणाभाववान् इत्यादिस्थले श्राश्रयासिद्धिघटितवाधेऽव्याप्तिसम्भवे स्थलान्तरानुसरणम् श्रनर्थके व्यापकताघटितविशिष्टसमवायघटितबाधस्य केवलसमवायघटिताश्रयासिद्धिघटितस्वादिति चेन्न ? संशयरूपपक्षताया अनुमितिहेतुत्ववादिनां मते तादृशस्थले गुणसामान्याभाववान् घटो विशेषगुणाभाववान्नवेतिसंशयस्याहार्यतया अनुमितेरेवाप्रसिद्धेः, तत्प्रतिबन्धकताघटित लक्षणस्य तत्र गमनाऽसम्भवादिति तु सुधीभिर्विभावनीयम् |
"Aho Shrutgyanam"