________________
१५८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
गादाधरी. भवतु तावदेवम् , तथापि विशेषगुणाभाववान् घटो गुणसामान्याभाववानित्यादौ दर्शितसमूहालम्बनानुमितिप्रसिद्धथा विशेषगुणवद्घटरूपाश्रयाऽसिद्धगुणवघटरूपबाधघटितायाः संग्रह आवश्यकः ।
यदि च तत्र घटत्वावच्छेदेन गुणवत्त्वमेव बाधः, अश्रयासिद्धिश्च तसामानाधिकरण्येन तदवच्छेदेन वा विशेषगुणवत्त्वम, तस्याश्च गुणत्वरूपसामान्यधर्मावच्छिन्नघटत्वव्यापकताघटितोक्तबाधस्य न प्रवेशः, विशेषगुणत्वेन घटत्वव्यापकतायास्तत्र प्रवेशेऽपि सामान्यरूपेण व्यापकतायास्त
ॐ चन्द्रकला 0 विशिष्टान्तराऽघटितत्वनिवेशे पुनरव्याप्तिमाह विशेषेति । तथाच ताशविशिष्टान्तराऽघटितत्वाऽनिवेशे प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिःस्यात्, तनिवेशे निरुक्तव्यभिचारधटितबाधेऽव्याप्त्यसम्भवेऽपि विशेषगुणाभाववान् घटो गुणसामान्याभाववान् घटस्वादत्यादौ विशेषगुणवद्धटरूपाश्रयासिद्धावव्याप्तिः, विशेषगुणवघटत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यद् गुणवद्घटत्वरूपं याधत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य विशेषगुणवद्धटत्वे विरहात् निरुक्ताश्रयासिद्धित्वस्य स्वपदेन धत्तु मशक्यत्वादिति भावः ।
दर्शितेति । विशेषगुणवान् घटो गुणसामान्याभाववान् गुणसामान्याभावव्या. प्यघटत्ववांश्चेत्याकारकज्ञानस्य अनाहार्यत्वादितिहृदयम् ।
संग्रह आवश्यक इति । तथाच विशिष्टान्तराघटितत्वविशेषणदानानुपपत्तिः,मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिस्तु प्रकारान्तरेणैव धारणीयेत्याशयः ।
निरुक्तामव्याप्तिमपाक शंकते यदिचेति । घटत्वावच्छेदेन = घटत्वव्यापकगुणप्रतियोगिकसमवायसम्बन्धेन । गुणवत्त्वमेवेति एवकारात् घटत्वसामानाधिकरण्येन गुणवत्त्वस्य बाधत्वव्यवच्छेदः। विशेषगुणाभाव विशिष्टघटादावेव गुणसामान्याभावस्य साध्यतया तादृशपक्षे निरुक्तसाध्यावगाह्यनुमितेर्घटत्वसामानाधिकरण्यावगाहित्येन तादृशानुमितिम् प्रति सामानाधिकरण्येन गुणवत्त्वावगाहिनिश्चयस्याऽप्रतिबन्धकतया घटत्वसामानाधिकरण्येन गणवस्य बाधत्वं न सम्भवतीति भावः ।
घटत्वसामानेति।समवायत्वभात्रावच्छिन्नसम्बन्धेनेत्यर्थः। विशेषगुणवत्त्वमाश्रयासिद्धिरितिपूर्वेण सम्बन्धः । तस्याम्-विशेषगुणवद्घटरूपाश्रयासिद्धौ। न प्रवेशःनघटकत्वम् । कुतोन तादृशवाधस्य प्रवेशःहत्यत आह विशेषति। तत्र याश्रयासिद्धौ। सामान्यरूपेण = गुणत्वरूपेण ।
"Aho Shrutgyanam"