________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १५७
ॐ गादाधरो बन्धकतासामान्यावच्छेदकत्वं, तस्यां च तादृशधर्मविशिष्टनिरूपितत्वस्यांवश्यकत्वात् प्रथमकल्पे स्वपदेन चरमकल्पे च यद्धर्मपदेन तस्योपादानसम्भवात्।
अथ वह्नयभावादिधर्मितावच्छेदककवह्नयादिप्रकारकबुद्धरिव धूमव्यभिचारविशिष्टवह्नयादिधर्मितावच्छेदककस्य धूमव्याप्यतया वह्नयादिप्रकारकग्रहस्याऽनाहायस्याऽसम्भवेन तादृशपक्षतावच्छेदकावच्छिन्नपक्षकप्तमूहालम्बनानुमितेरप्रसिद्धथा तादृशानुमितिप्रतिबन्धकताघटितयथाश्रतलक्षणस्य तद्रूपावच्छिन्नपक्षकवह्नयादिहेतुकदोषेऽव्याप्ति स्वयमेव वक्ष्यतीति तद्वारणायाऽऽयासोऽयं वृथेति चेद् ?
* चन्द्रकला शप्रतिबन्धकतासामान्यनिरूपिताऽवच्छेदकीभूता यत्किञ्चिद्विषयिता, तत्रच बाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वसत्त्वेन तत्र यादृशयादृशधर्मावच्छिन्नाऽनिरूपितत्वं वर्तते तादृशघटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य वाधविशिष्टव्यभिचारत्वे सत्वात् बाधविशिष्टव्यभिचारत्वस्याऽपि स्वपदेनोपादानसम्भवात् ।।
अथवाकल्पे तु वाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदिकायां पूर्वोक्तयुक्तया वाधविशिष्टव्यभिचारविषयितायां वाधविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वस्याक्षततया यद्धर्मपदेन वाधविशिष्टव्यभिचारस्वस्य धत्तु शक्यत्वादित्याह वाधविशिष्टेति । वह्नित्वम् धूमवत् धूमाभाववद्वहित्ववत इत्यादौ धूमाभावववृत्तित्वविशिष्टधूमाभाववरहित्वरूपवाधविशिष्टतादृशवह्निरूपव्यभिचारे इत्यर्थ इति केचित् । ___ यद्यपि वह्नयभाववान् पर्वतो वह्निमान् धूमादित्यादौ वह्निविरोधिवढ्यभावामतावच्छेदकवह्निप्रकारकज्ञानस्याहार्यतया तादृशपक्षसाध्यकानुमित्यप्रसिद्ध्या तत्स्थलीयदोषे यथा दीधितिकृतैवाने अव्याप्तिर्वक्ष्यते तथा धूमव्यभिचारिवह्निधर्मितावच्छेदककधूमाभाववदवृत्तिवह्निरूपसाध्यव्याप्यहेतुप्रकारकज्ञानस्याप्याहार्यतया तत्स्थलीयदोषेडव्याप्तिः प्रतिबन्धकताघटितलक्षणे वारयितुं न शक्यते इति तद्वारणकारणानुसन्धानमनुचितमित्युच्यते तथापि न निस्तार इत्याह वह्नयभावादीति । स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकज्ञानस्याहार्यत्वादित्याशयः ।
धूमव्याप्यतया धूमाभाववदवृत्तितया । तादृशेति। धूमव्यभिचारिवह्निमत्वावच्छिन्नपक्षकधूमप्रकारकधूमव्याप्यवह्निप्रकारकसमूहालम्बनानुमितेरित्यर्थः । स्वयमेव-दीधितिकृतैव
8 कलाविलासः ॐ पयितास्वव्यापकत्वञ्च लक्ष्यतावच्छेदके स्वावच्छिन्ननिरूपितत्वसम्बन्धेनेति ध्येयम् ।
"Aho Shrutgyanam"