________________
१५६ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी - बाधविशिष्टव्यभिचारत्वावच्छिन्नेऽतिप्रसङ्गात् तादृशधर्मावच्छिन्नविषयकत्वावच्छिन्नबाधज्ञानप्रतिबन्धकतायां केवलव्यभिचारविषयितायां तादृशव्यभिचारज्ञानप्रतिबन्धकतायां च केवलबाधविषयिताया अनवच्छेदकत्वेन बाधविशिष्टव्यभिचारत्वाधवच्छिन्नविपयिताया एव तथाविधप्रति
* चन्द्रकला * तादृशनिरूपितत्वव्याप्यत्वं तादृशविषयितात्वव्यापकत्वं वा तादृशनिरूपितत्वे वक्तव्यम् , अन्यथा प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिःस्यात्, प्रमेयत्वविशिष्टव्यभिचारत्वरूपयद्ध विच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकप्रमेयत्वविशिष्टव्यभिचारविषयितान्तर्भावेन तादृशविषयितात्वे प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वसामानाधिकरण्यसत्त्वेन यद्धर्मपदेन प्रमेयत्वविशिष्ट व्यभिचारत्वस्यापि धत्तुं शक्यत्वात् ।
नवा व्यभिचारघटितबाधेऽव्याप्तिः, तादृशप्रतिबन्धकतासामान्यावच्छेदकव्यभिचारघटितबाधविषयितायां धूमाभाववभूमयभिचारिवह्निमत्त्वावच्छिन्ननिरूपितत्वस्याक्षतत्वात् । __हृदो वह्निमान् धूमादित्यादौ तादृश्यां वह्नयभावविशिष्टहृदविषयितायां वह्नयमावविशिष्टहदत्वावच्छिन्ननिरूपितत्वस्य धूमवान् वढेरित्यादौ च धूमाभाववृत्तित्वविशिष्टवह्निरूपव्यभिचारविषयितायां धूमाभावववृत्तित्वविशिष्टवह्नित्वावच्छिन्ननिरूपितत्वस्य च सत्त्वात् तत्र तत्र बाधव्यभिचारादौ लक्षणप्तमन्वयः ।
सर्वत्र प्रतिबन्धकतासामान्यनिवेशो व्यभिचारघटितबाधेऽध्यातिवारणार्थ एव । अन्यथा धूमाभाववधूमव्यभिचारिमत्वावच्छिन्नविषयकत्वव्यापकयकिश्चद्व्याप्ति. ग्रहप्रतिबन्धकतावच्छेदकव्यभिचारविषयितायां धूमाभाववधूमव्यभिचारिवह्निमस्वावच्छिन्ननिरूपितत्वविरहेण यद्धर्मपदेन निरुक्तबाधत्वस्योपादातुमशक्यस्यात् निरुक्तव्यभिचारघटितबाधेऽव्याप्तिः स्यात् ! एवं पूर्वपूर्वाकल्पेऽपि प्रतिबन्धकतासामान्यनिवेशस्थानयैव रीत्या व्यावृत्तिः स्वयमूहनीयेति दिक् ।
तृतीयनचकल्पे चतुर्थाथवेत्यादिकल्पे च बाधविशिष्टव्यभिचारेऽतिव्याप्तिवारणमशक्यमेव, बाधविशिष्ट व्यभिचारत्वरूपस्वावच्छिन्नविषयकत्वव्यापकप्रतिबन्धकतासामान्यावच्छेदकयक्किञ्चिविषयितापदेन केवल बाधविषयिता केवलव्यभिचारविषयिता वा धत्तं न शक्यते ? केवलबाधविषयितायाःतादृशप्रतिबन्धकतासामान्यान्तगंतव्याप्तिग्रप्रतिबन्धकतायामनवच्छेदकत्वात् , व्यभिचारविषयितायाश्च साध्यानुमितिप्रतिबन्धकतानवच्छेदकत्वात् , किन्तु बाधविशिष्टव्यभिचारविषयितैव ताह
* कलाविलास: * स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकत्वसम्बन्धेन, वि.
"Aho Shrutgyanam"