________________
चन्द्रकला - कलाविलासाख्य टीकाद्वयोपेतम्
& गादाधरी
अथवा यद्धर्मावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकता सामान्यावच्छेदकीभूतविषयितात्वं यद्धर्मावच्छिन्ननिरूपितत्वव्याप्यं तद्धर्मवत्त्वमेव समुदिताथ इति वाच्यम् ।
१५५
* चन्द्रकला *
तायां प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वसत्त्वेन यादृश्यादृशधर्ममध्ये तस्याऽप्रवेशात् यादृशयादृशघटत्वाद्यवच्छिन्नाऽनिरूपिता तादृशी विषयिता तादृशघटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रमेयत्वविशिष्टविशिष्टव्यभिचार - त्वरूपस्ववत्त्वस्य प्रमेयत्वविशिष्टव्यभिचारेऽनपायादतो यत् किञ्चित्त्वं तादृशविषयिताविशेषणम् । तथा सति यत्किञ्चिद्विषयितापदेन शुद्धव्यभिचारविषयिताया एव धर्त्तव्यतया तत्रच प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्न निरूपितत्वविरहान्न तत्राऽतिव्याप्तिः ।
यादृशयादृशेति वीप्सानादरेऽपि प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेकयत् किञ्चिद्व्यभिचारविषयितायां यत् किञ्चिद्घटत्वाद्यवच्छिन्नाऽनिरूपितत्वस्यावश्यकतया तादृशवटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्ववत्त्वस्य प्रमेयत्वविशिष्टव्यभिचारे सच्चादतो यादृश्यादृशेतिवोप्सादरः । तथा सति यादृश्यादृशधर्मान्तर्गत प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽनिरूपितत्वस्य तादृशशुद्धव्यभिचारविषयितायामक्षतत्वात् स्वस्मिंश्च प्रमेयत्व विशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वविरहान्न तत्राऽतिव्याप्तिरिति ध्येयम् ।
तृतीयचतुर्थनच कल्पयोर्दूषणस्य साम्यात् तृतीयनच कल्पे दूषणमदत्त्वैव चतुर्थनचकल्पमाह अथवेति । तथाच यद्धर्मावच्छिन्न विषयकत्वव्यापक प्रकृतानुमितिप्रतिब-न्धकतात्वस्य व्यापकतासम्बन्धेन व्यापकीभूतविषयितात्वव्यापकं यद्धर्मावच्छिन्ननिरूपितत्वं तद्धर्मवत्त्वं समुदितलक्षणार्थः पर्यवसितः ।
प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतात्वव्यापकीभूतविषयितात्वस्य शुद्धव्यभिचारविषयितायामपि सत्त्वेन तत्रच प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्ननिरूपितत्वविरहात् यद्धर्मपदेन प्रमेयत्वविशिष्टिव्यभिचारचस्योपादानाऽसम्भवान्न तत्रातिव्याप्तिः ।
अत एव तादृशविषयितात्वे यद्धर्मावच्छिन्न निरूपितत्व सामानाधिकरण्यमनभिधाय * कलाविलासः *
निरुक्तकल्पस्यानुगमो यथा धर्मविशिष्टधर्मवच्वं दोषत्वम्, धर्मवैशिष्ट्यं धर्मे स्वतादात्म्य-स्वविशिष्टविषयितात्वव्यापकत्वोभयसम्बन्धेन, स्ववैशिष्ट्यं विषयितायां
"Aho Shrutgyanam"