________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
® गादाधरी * मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकता. सामान्यावच्छेदकी भूतायाः शुद्धव्यभिचारत्वाद्यवच्छिन्ननिरूपितविषयि ताया मेयत्वविशिष्टव्यभिचारत्वाद्यवच्छिन्नानिरूपितत्वेन तद्वच्छिन्नावि. षयकप्रतीतिविषयतावच्छेदकत्वस्य च स्वस्मिन्नसत्त्वेत मेयत्वविशिष्टव्यभिचारत्वादेः स्वपदेनोपादातुमशक्यत्वात्, व्यभिचारत्वादिविशिष्टविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदिकायाः कस्याश्चिदपि विपयि. तायाः व्यभिचारत्वादिविशिष्टानिरूपितत्वासम्भवात् , ताहशविषयिताया यादृशधर्मविशिष्टानिरूपितत्वं घटत्वमेयत्वविशिष्टव्यभिचारत्वादेरेव ताहशत्वात् तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतया व्यभिचारत्वादेः स्वपदेनोपादातुं शक्यत्वाच्च न कश्चिद्दोपः ।
स चन्द्रकला वच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मिन्प्रमेयत्वविशिष्टव्यभिचारत्वे विरहात् स्वपदेन प्रमेयत्वविशिष्टव्यभिचारत्वस्य धत्तु मशक्यत्वान्न तत्रातिव्याप्तिरित्याह मेयत्वेति । स्वस्मिन् प्रमेयत्वविशिष्टव्यभिचारत्वे । व्यभिचारादौ लक्षणसमन्वयम् प्रदर्शयति व्यभिचारत्वादीति । स्वर दग्राह्येत्यादिः । तादृशत्वात् = याशयाशधर्मान्तर्गतत्वात् ।
__ न कश्चिद्दोप इति । धूमाभाववधूमव्यभिचारिवह्निमत्त्वरूपस्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वव्यापकलायाः धूमव्यभिचारिवह्नित्वावच्छिन्नविषयितायां विरहेण तादृशव्यापकीभूतयत्किञ्चिद्विषयितापदेन निरुत्तव्यभिचारघटित. बाधविषयिताया एव धर्तव्यतया तत्रच घटत्वाद्यवच्छिन्नाऽनिरूपितत्वस्यावश्यकत्वेन तादृशघटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकव्यभिचारघटितवाधत्वरूपस्ववत्वस्य तादृशवाधादौ सत्त्वान्न कुत्राप्यव्याप्तिरतिव्याप्तिर्वा सम्भवतीति हृदयम् । ___ अत्र कल्पे विषयितायां यत्किञ्चित्त्वाऽनिवेशे प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नविषयकत्वावच्छिन्नव्याप्तिग्रहप्रतिबन्धकतावच्छेदकविषयितासामान्यान्तर्गतायां प्रमेयत्वविशिष्टव्यभिचारविषयि
___ * कलाविलासः * च्छेदकताकप्रतियोगिताकभेदवरवसम्बन्धेन, विपयितायां तादृशप्रतिबन्धकतास्वव्या. पकरवन्तु स्वव्यापकत्वसम्बन्धेन ।
अथवाकल्पे अवच्छेदकताबयस्य स्वरूपसम्बन्धरूपत्वे पूर्ववदेवाव्याप्तवादिकं स्वयमूहनीयम्।
"Aho Shrutgyanam"