________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १५३
* गादाधरी * तयत्किश्चिद्विषयित्वं यादृशयाशधर्मावच्छिन्नाऽनिरूपितं तादृशतादृशधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्पावच्छिन्नत्यमेव समु. दितार्थः ।
* चन्द्रकला * प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धक - तात्वव्यापकशुद्धव्यभिचारत्वावच्छिन्ननिरूपितविषयितायाः प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽनिरूपिततया यादृशयादृशधर्मान्तर्गतप्रमेयत्वविशिष्टव्यभिचारत्वा
* कलाविलासः * समानाधिकरणजलवद्धदेऽव्याप्तिः, जलवद्धदरवावच्छिन्नविषयितायाःतादृशसत्प्रतिपक्षतावच्छेदकधर्मावच्छिन्नाऽनिरूपितत्वात् । एवञ्च प्रथमावच्छेदकतायाःस्वरूपसम्बन्धरूपत्वे हृदो वह्निमानित्यादौ पूर्ववदेवाव्याप्तिः, ज्ञानविशिष्टज्ञानादिसाधारणानुमितिप्रतिबन्धकतासामान्यानतिरिक्तवृत्तियत्किञ्चिद्विषयित्वाप्रसिद्धः । __अथोक्तकल्पेऽसम्भवः, बाधादिविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकतादृशबाधादिविषयिताया बाधायेकदेशवृत्तिधर्मावच्छिन्नाऽनिरूपिततया तादृशधविच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य बाधत्वादौ विरहादितिचेन्न, साक्षात्परम्परासाधारणनिरूपितत्वस्याभ्युपगमे बाधायेकदेशवृत्तिधर्मावच्छिन्नाऽनिरूपितत्वस्य बाधविपयितायामसम्भवात् तादृशधर्मावच्छिन्नाऽनिरूपितत्वमनिवेश्य · तादृशधर्मानवच्छिन्नप्रकारतावच्छेदकत्वस्य तादृशधर्मानवच्छिन्नविषयितानिरूपकतावच्छेदकत्वस्य वा विवक्षणे यादृशस्थलविशेषे मेयत्वविशिष्टव्यभिचारविपयकं ज्ञानं नियमतो बाधविपयकमेव भवति तत्र प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, केवलव्यभिचारत्वावच्छिन्ननिरूपितविषयितायाः मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यान्तर्गतमाधनिश्चयप्रतिबन्धकतानवच्छेदकतया यत् किञ्चिद्विषयितापदेन व्यभिचारविषयिताया धर्तुमशक्यत्वात्, तादृशसमूहालम्बनज्ञा. नीयस्वावच्छिन्नविषयिताया धर्तव्यत्वेऽपि तत्र वाधवानवच्छिन्नप्रकारतावच्छेदकत्वस्य बाधत्वानवच्छिन्नविषयितानिरूपकतावच्छेदकत्यस्य बाधत्वावच्छिन्नानिरूपितत्वस्य सत्वेन तादृशविशेषणानां स्वस्मिन् वर्तमानत्वात् । अस्माकन्तु तादृशबाधत्वा. वच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य मेयत्वविशिष्टव्यभिचारत्वे विरहानातिव्याप्तिरितिकेचित् ।
तृतीयनचकल्पस्यानुगमस्तु धर्मविशिष्टधर्मवत्त्वं हेत्वाभासत्वमिति, वैशिष्टयञ्च स्वतादात्म्य स्वविशिष्टधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन, स्ववैशिष्टयं धर्मे स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकवि. पयितावृत्तित्वसम्पन्धेन, वृत्तित्वञ्च स्वावस्छिन्ननिरूपितत्वसंसर्गावच्छिन्नस्वनिष्ठाव
"Aho Shrutgyanam"