________________
१५२
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
च्छिन्नघटकतावच्छेदकस्य धूमव्यभिचारिवह्निमत्त्वादेः स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूतस्वावछिन्न विषयकत्वावच्छिन्नप्रतिवन्धकता -
सामान्यावच्छेदकविषयितानिरूपकतावच्छेदकव्यभिचारत्वकत्वादव्याप्ते
दुर्वारत्वात् ।
नच स्वावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेद की भू
* चन्द्रकला *
स्वावच्छिन्नेति । धूमव्यभिचारिवह्नि मत्वरूपस्वावच्छिन्नार्थकम् । दुर्वारत्वादिति । स्वपदेन पचतावच्छेदकधूमव्यभिचारिवह्निमत्त्वस्य धतुं शक्यत्वादिति भावः ।
निरुक्ताव्याप्तिवारणार्थं पुनरपि तृतीयनचकल्पमाह स्त्रावच्छिन्नेति । स्वं लक्ष्यतावच्छेदकत्वेनाभिमतो धर्मः । तथाच स्वावच्छिन्न विषयकत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्वस्य व्यापकतासम्बन्धेन व्यापकीभूतयत् किञ्चिद्विषयित्वं यादृशयादृशधर्मावच्छिन्नानरूपितं ताराता राधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेकं यत् स्वं तादृशस्ववत्त्वं समुदितलक्षणार्थः पर्यवसितः ।
हृदो वह्निमान् धूमादित्यादौ वह्नय भावविशिष्टहदत्वात्मक वाचत्वरूपस्त्रावच्छिन्नविषयकत्वव्यापकतादृश साध्यानुमितिप्रतिबन्धकतात्वव्यापकीभूतायां वह्नय भावविशिष्टयत्किञ्चिद्भदविषयितायां वयमावपिशिष्ट दत्वावच्छिन्ननिरूपितत्वस्यावश्यकतया याहरायादृशधर्ममध्ये तादृशवह्नयभावत्वादेर पविष्टत्वात् घटत्वपटत्वादेरेव यादृशयाधर्मान्तर्गततया ताह घटत्वाद्यवच्छिन्नाऽनिरूपितत्वस्य तत्राऽक्षतत्वात् तादृशघटत्व पटत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकवहयभावविशिष्टहदत्ववच्त्वरूपस्ववत्त्वस्य वह्न्यभावविशिष्टहृदादौ वर्त्तमानत्वात् तादृशबाधादौ लक्षणसमन्वयः । एवमन्यत्रापि ।
* कलाविलासः *
विशेषणोपगमादेव स्वपदेन धूमव्यभिचारिवह्निमत्वमादाय व्यभिचारघटितवाव्याप्तिवारणसम्भवे द्वितीयन चकल्पे तन्त्राऽव्याप्तिदानमसंगतमिति वाच्यम्, तथासति बाधविशिष्टव्यभिचारेऽतिव्याप्तयापत्तेः धूमव्यभिचारिवह्निमत्वस्येव बाधवैशिष्टयस्यापि स्वपदेन धत्तु मयत्वात् । प्रकृतेबाघवैशिष्टयमादायैव तत्रातिष्यातेवरितत्वादिति ध्येयम् ।
तृतीयनचकल्पे अवच्छेदकताद्वयमेवात्र पूर्ववदनतिरिक्तवृत्तित्वरूपं वक्तव्यम्, - अन्यथा पूर्ववदेव द्वितीयावच्छेदकतायाःस्वरूप सम्बन्धरूपत्वे जलव्यापकत्रयभाव
" Aho Shrutgyanam"