________________
चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी *
१५१
वच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य विवक्षणीयतया न दोष इति वाच्यम्, तथा सति धूमव्यभिचारिवह्निमान् धूमवान् वह्नेरित्यादौ बाधत्वायव
* चन्द्रकला
च्छिन्नाऽविषयकप्रतीतिविषयतानवच्छेदकत्वात् प्रमेयत्वविशिष्टव्यभिचारत्वादेः कस्यापि स्यपदेनोपादानाऽसम्भवादसम्भवः स्यादतस्तादृशनिरूपकतावच्छेदकः कश्चिदित्युक्तम् । तथाच यत् किञ्चितादृशधर्मस्य व्यभिचारत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वात् स्वपदेन तादृशविशिष्टव्यभिचारत्वमादायैव नाऽसम्भव इति ध्येयम् ।
तादृशस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदधर्मवत्त्वमात्रस्य
यद्रूपावच्छिन्नविषयक निश्चयत्वेत्यादिना
लक्षणाथत्वे
विशेष्यदलाऽप्रवेशे घटादावतिव्याप्तिः,
स्वपग्राह्यमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकघटत्वादि - धर्मवत्त्वस्य घटादात् । विशेष्यदलप्रवेशे तु न तत्राऽतिव्याप्तिः, घटत्वाद्यवच्छिं. न्ननिश्चयस्य प्रकृतानुमितावप्रतिबन्धकत्वादित्यन्यत्र विस्तरः ।
विवक्षणीयतयेति । विशिष्टान्तराघटितत्वद लेनेत्यादिः । निरुक्तद्वितीयनचकल्पं दूषयति तथासतीति । निरुक्तरीत्या लक्षणार्थस्य निर्वचने सतीत्यर्थः । तथाचोक्तकल्पे धूमव्यभिचारिवह्निमान् धूमवान् वह्नेरित्यादौ धूमाभाववडूम मव्यभिचारिवह्निमद्रूपबाध एवाव्याप्तिः धूमव्यभिचारिवह्निमत्त्वरूपस्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहनिरूपित प्रतिबन्धकतात्वव्यापक विषयितानिरूपकतावच्छे कतादृशस्वावच्छि नाऽविषयकप्रतीतिविषयतावच्छेदकोभूतो धूमव्यभिचारिवह्नित्वरूपः कश्चिद्धर्मो यस्थ धूमव्यभिचारिवह्निमत्त्वस्य एवम्भूतं यत् स्वं धूमव्यभिचारिवह्निमत्त्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य लक्ष्यतावच्छेद उदकयद्रूपात्मक धूमाभाषवद्धूमव्यभिचारिवह्निमत्त्वरूपबाधत्वे विरहादित्याह धूमव्यभिचारीति ।
बाधत्वेति । धूमाभाववद्धूमव्यभिचारिवह्निमत्त्वरूपवाचत्याद्यवच्छिन्नार्थकम् |
& कलाविलासः
द्वितीयनचकल्पस्यानुगमस्तु धर्मविशिष्टधर्मवत्त्वं हेत्वाभासत्वम्, वैशिष्टयं स्वतादात्म्य-स्वविशिष्टनिश्चयश्वव्यापक प्रकृतानुमितिप्रतिबन्धकताकालीनधर्मवृत्तिधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन, धर्मवृत्तित्वं धर्मे स्वावच्छिन्नविषयकत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्यव्यापक विषयितानिरूपकतावच्छेदकत्व-स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविषयित्वाऽव्या
पकीभूतविषयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकस्वैतत् त्रितयसम्बन्धेन ।
धूमव्यभिचारीति । नच विशेष्यदलघटकप्रतिबन्धकतावच्छेदकस्वस्य स्वपदार्थ
"Aho Shrutgyanam"