________________
अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम्
* 'गादाधरी *
विषयितानिरूपकतावच्छेदकः कश्चित् स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदको यश्य एवं भूतं यद्यत्त्वं “प्रमेयत्वविशिष्टव्यभिचारत्यादि” तद्
१५०
चन्द्रकला
वह्निरूपे व्यभिचारे च लक्षणसमन्वयः, प्रमेयत्वविशिष्टवह्नयभाववदत्वादिरूपस्वावच्छिन्न विषयकत्वव्यापकपक्षवर्मिकसाध्यानुमितिप्रतिबन्धकतात्वस्य व्यापकतासम्बन्धेन व्यापिका या शुद्धवाधादिविषयिता तन्निरूपकतावच्छेदकयत् किञ्चिद्धर्मस्य वह्नयभावविशिष्टहृदत्वादेः प्रमेयत्वविशिष्टतादृशवाधत्वादिरूपत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतया स्वपदग्राह्यतादृशप्रमेयत्व विशिष्टवाधत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकवलयभावविशिष्टहदत्व रूपयद्रूपावच्छिन्न विषयक निश्चयत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायां सत्वात्तादृशतद्रूपवत्त्वस्य वहयभावविशिष्टहृदादावृक्षतत्वात् । एवं प्रमेयत्वविशिष्टधूमाभाववद्वृत्तिवह्नित्वादिकं स्वपदेनादाय अनयैव रीत्या लक्षणसमन्वयो बोध्यः ।
धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपवावेऽपि नाव्यातिः, तादृशत्राधत्वस्य तादृशबाधत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वाऽसम्भवात् स्वपदेन निरुक्तव्यभिचारघटितवाधत्वस्य धत्तुमशक्यत्वात् प्रमेयत्वविशिष्टव्यभिचारघटितचाधत्वमेव स्वपदेनोपादाय पूर्ववत्तत्रापि लक्षणसमन्वयसम्भवात् । मेयत्वविशिष्टव्यभिचारादौ तु अतिव्याप्तिशंका नास्त्येव, प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाविषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेद की भूतस्वावच्छिनाऽविषयकप्रतीतिविषयतावच्छेदकयत् किञ्चिद्व्यभिचारत्वकं यत् स्वं प्रमेयत्वविशिष्टव्यभिचारत्वादिकं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मि नसत्वेन तादृशयद्रूपपदेन प्रमेयत्वविशिष्टव्यभिचारत्वादेः उपादातुमशक्यत्वात् । प्रमेयत्वविशिष्टव्यभिचारत्वादेः मेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नविषयक
त्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकधर्मस्य
* कलाविलासः *
श्रथैवमुक्तरूपे जलव्यापकवयभावसमानाधिकरणजलवदूधदरूप सत्प्रतिपक्षेऽव्याप्तिः तादृशजलवद्दत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्य जल
स्वाव
व्यापकवह्नथभावकालीनजलत्रद्धदत्वस्य तादृशसत्प्रतिपक्षतावच्छेदकरूपावच्छिन्नविपयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकतया स्वपदेन जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदत्वस्यैवोपादानसम्भवादितिचेन्न ? श्रत्रापि तादृशयत् किञ्चिरूपावच्छिन्नविषयितायां स्वावच्छिन्न विषयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीयत्वस्य विवक्षणं यत्वादुक्ताव्याप्तेरसम्भवादिति केचित् ।
"Aho Shrutgyanam"