________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १४६
* कलाविलासः * म्भवसम्भवे धूमव्यभिचारिवह्निमान् धूमवान्वह्वेरित्यत्र बाधेऽव्याप्तयभिधानमनुचितम् । तथापि स्वावच्छिन्नाऽविपयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकरूपविशिष्टान्तरतावच्छेदकधर्मे प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावद्विषयितानिरूपकतावच्छेदकत्वस्यापि विवक्षणीयतया न तादृशप्रमेयत्वादिकमादायाऽसम्भव इति सुतरामव्याप्त्यभिधानम् । नचैन प्रसिद्धवह्नयभाववद्धदरूपत्राध एवाव्याप्तिः, तादशहदत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यद् वयभावव्याप्यवद्ध्दत्व तदाश्रयाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य निरुक्तवाधत्वे विरहादिति वाच्यम्, वह्नयभावव्याप्यवद्ध्दत्वाश्रयाऽविषयकं यद् वह्नयभाववद्ध्दत्वेन घटावगाहिज्ञानं तद्विपयतावच्छेदकत्वस्य तादृशहदत्वरूपवाधत्वे सत्त्वात्तत्राऽव्याप्त्यसम्भवादिति ध्येयम् । द्वितीयनचकल्पे स्त्रावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरवं यत्किञ्चिदपेऽनिवेश्य स्वानवच्छिन्नप्रकारतावच्छेदकत्वस्य तत्र विवक्षणे यादृशस्थले व्यभिचारविषयकं ज्ञानं नियमतो वाधविषयकमेव भवति ताशस्थले व्यभिचारेऽध्याप्तिः, वाधस्वरूपस्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकत्वस्य स्वानवरिछनप्रकारतावच्छेदकत्वस्य च व्यभिचारत्वे सत्वेन स्वपदेन वाधत्वस्योपादातुं शक्यतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावरछेदकत्वस्य व्यभिचारत्वे विरहात् ।
नच तादृशं यद् यत् स्वं तदनवच्छिन्नप्रकारतावच्छेदकत्वमपि लघयतावच्छेदकीभूतयद्रूपे विवक्षणीयम्, तथासति न तादृशस्थले व्यभिचारेऽव्याप्तिः, तादृशवाधवानवच्छिन्नप्रकारतावच्छेदकत्वस्य व्यभिचारत्वे सत्वादिति वाच्यम्, यत्र मेयस्वविशिष्टवाधविषयकं ज्ञानं नियमतो मेयत्वविशिष्टव्यभिचारविषयकमेव भवति सत्र मेयत्वविशिष्टवाधेऽतिव्याप्त्यापत्तेः । मेयत्वविशिष्टवाधत्वरूपस्वावच्छिन्नविषयकस्वावच्छिन्नप्रतियन्धकतासामान्यान्तर्गतमेयत्वविशिष्टव्यभिचारस्वावच्छिन्नविषयित्वा - वच्छिन्न प्रतिबन्धकतावच्छेदकविपयितानिरूपकतावच्छेदकत्वस्य वाधत्वे विरहेण स्वपदेन मेयत्वविशिष्टवायत्वस्य धर्तुमशक्यतया स्वपदोपात्तमेयत्वविशिष्टव्यभिचारस्वानवच्छिन्नप्रकारतावच्छेदकत्वस्य मेयत्वविशिष्टवाधत्वेऽनपायात् । अस्मन्मते तु मेयस्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य मेयत्वविशिष्टवाधत्वे विरहान्नातिव्याप्तिः । तथाच स्वावच्छिन्नविषयित्वाव्यापकीभूतविपयि- . ताशून्यज्ञानीयस्वावच्छिन्नविषयिताव्यापकप्रकृतानुमितिप्रतिबन्धकतासामान्यावच्छेदकयद्रूपावच्छिन्न विषयित्वाव्यापकविपयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदको यःकश्चिद्धर्मः स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदको यस्य स्वस्थ एवम्भूतं यद् यत् स्वं तदवरिछन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वमेव लक्ष्यतावच्छेदकयद्रूपविशेषणमिति भावः ।
"Aho Shrutgyanam"