________________
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
* गादाधरी यद्यद्रूपावच्छिन्नस्य यस्य यस्य तादृशविशिष्टघटकता तत्तद्रूपावच्छिन्नतत्तन्निष्ठविषयताभिन्न किश्चिदवच्छिन्नविषयताशून्यत्वं ज्ञाने निवेश्यम् ।
* चन्द्रकला * जातिवादिना ह्रदत्वावगाहिज्ञानवारणेऽपि सर्वमाकाशवदित्यादौ आकाशाभाववत्सवरूपबाधादावव्याप्तिः, ताशबाधघटकसर्वपदार्थभिन्नत्वस्याऽप्रसिद्ध्या विशिष्टाघटकस्याऽप्रसिद्धरितिभावः । निरुक्ताऽव्याप्तः पूर्वोक्ताऽसम्भवस्य च वारणाय पुनः शंकते यद्यद्रूपेति । यस्य यस्य = पदार्थस्य । यादृशेति । लक्ष्यत्वेनाभिमतेत्यादिः ।
तत्तद्रूपेति । निरवच्छिन्नह्रदत्वादिनिष्ठविषयतायाः तत्तद्रूपावच्छिन्नविषयताभिन्नतया तच्छून्यत्वस्य वन्यभावविशिष्टहृदनिश्चये विरहात् बाधादी लक्षणसमन्वयासम्भवात् तत्तद्रूपावच्छिन्नविषयताभिन्नविषयताया किञ्चिदवच्छिन्नत्वनिवेश इत्यवधेयम् । ज्ञाने = यद्रूपावच्छिन्नविषयकनिश्चये । निवेश्यमिति । तथाच न सर्वमाकाशवदित्यादी आकाशाभावविशिष्ट सर्वरूपबाधादावव्याप्तिः, निरुक्तबाधादिधटकतावच्छे. दकसर्वत्वाद्यवछिन्नविषयताभिन्ना या घटत्वादिरूपकिञ्चिद्धर्मावछिन्ना विषयता तच्छू न्यत्वस्य तादृशाधादिनिश्चये सत्त्वादिति हृदयम् ।
__ * कलाविलासः * यद्यपावच्छिन्नस्येति । ननु यद्यद्पावच्छिन्नस्य यस्य यस्य यादृशविशिष्टाघटकावं तत्तद्रूपावच्छिन्नतत्तनिष्टविषयताशून्यत्वमेव लाघवाद् ज्ञाने निवेश्यं किं तद्विषयिताव्यापकविषयिताक रवरूपघटकरवनिवेशेनेति चेन्न ? घटकसंख्यापेक्षया अघटकसंख्याया प्राधिक्येन भेदकूटगौरवादिति ध्येयम् ।
निरुक्तकल्पस्यानुगमस्तु प्रकृतानुमितित्यव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतावृत्तिरूपवत्वं हेत्वाभासत्यम् । प्रतिबन्धकतावृत्तित्वञ्च रूपे स्वविशिष्टनिश्चयत्वव्यापकत्वसम्बन्धेन, स्ववैशिष्ट्यं निश्वये स्वावच्छिनविषयितावत्त्व-स्वावच्छिन्नविपयिताव्यापक विपयितानिरूपकतावच्छेदकरूपविशिष्टान्यकिञ्चिदवच्छिन्नविषयिताशून्यत्वोभयसम्बन्धेन, ताशरूपवैशिष्ट्यञ्च स्वावच्छिनत्त्व-स्त्रसामानाधिकरण्योभयसम्बन्धेन । यद्यद्पावच्छिन्नस्येत्यनुक्तौ सर्वमाकाशवदित्यादिस्थलीयबाधादावव्याप्तिः, सर्वस्यापि विशिष्टघटकत्वात् । यस्य यस्येत्यनुक्तौ हृदः प्रमेयवह्निमानित्यादौ गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वे अमेयवह्नयभावविशिष्टहदरूपवाधेऽव्याप्तिः, प्रमेयत्वेन हदत्वावगाहिज्ञानेऽपि निरुक्तविषयिताशून्यत्वस्थानपायादतो यस्य यस्येत्युक्तम् ।
"Aho Shrutgyanam"