________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १०७
* गादाधरी * ताशविशिष्टाघटकपदार्थाविषयकत्वस्य ज्ञानविशेषणत्वोपगमे सर्वमाकाशवदित्यादिस्थलीयबाधादौ तदघटकाप्रसिद्धथा अव्याप्तिः।
___ * चन्द्रकला * विशिष्टहदरूपविशिष्टघटका ये हृद-हृदत्व-वह्नि-वह्नित्व-भावाभावत्वादयः तेषां प्रत्येकपदार्थभेदकूटवत्वस्य जातित्वे सत्वेन तादृशजातित्यपदार्थाऽविषयकत्वस्य जातिमान् वन्यभाववानित्याकारकशाने विरहात् , वह्नयभावविशिष्टह्रदनिश्चयस्यैव तादृशजातिस्वादिपदार्थाऽविषयकतया तत्रानुमितिप्रतिबन्धकत्यानपायात् । . विशिष्टघटकयत्किञ्चित्पदार्थभेदस्य तद्घटकपदार्थान्तरे सत्त्वात् ताशपदार्थान्तराविषयकत्वस्य लक्ष्यीभूतविशिष्ट विषयकनिश्चयेऽपि दुर्घटतयाऽसम्भवतादेवस्थ्यमतो भेदकूटनिवेशः । तथाच विशिष्ट घटकतत्तलदार्थभेदकूटवत्त्वस्य विशिष्ट घटकपदार्थेऽसम्भवान्नाऽसम्भवः । वन्यभावविशिष्टहृदरूपविशिष्टाऽघटकयत्किञ्चिजातित्वाऽविषयकत्वस्य प्रमेयत्वेन हृदत्वावगाहिनि प्रमेयवान्वन्यभाववान् इत्याकारकशाने वर्तमानतया तत्राऽनु. मितिप्रतिबन्धकताविरहेणाऽसम्भवतादवस्थ्यं स्यादतस्तादृशाघटकयावत्पदार्थविषय. कत्वाभावकूटनिवेशः। तथाच तादृशयावदन्तगतप्रमेयत्वाविषयकत्वस्य प्रमेयवान् वहन्यभाक्यानित्याकारकज्ञाने विरहान्नाऽसम्भव इत्याह तादृशति । यादृशविशिष्टे लक्षणं संगमनीयं तादृशेत्यर्थकम् । ज्ञानविशेषणत्वोपगमे = यद्पावच्छिन्नविषयक. निश्चयविशेषणत्वे । सर्वमिति। सर्वमाकाशवदित्यादिस्थलीयाऽकाशाभाववत्सर्वरूपबाधादावित्यर्थः । आदिना आकाशाभावव्याप्यवत्सर्वरूपसत्प्रतिपक्षपरिग्रहः । तदघटकेति । तादृशबाधघटकभिन्नत्वस्याऽप्रसिद्धयेत्यर्थः । सर्वस्यैव वस्तुनो बाधघटकत्वादित्याशयः। अव्याप्तिरिति । पूर्वोक्तरूपेण विशिष्टाघटकत्वविवक्षणे
* कलाविलासः तादृशविशिष्टाघटकेति । तथाचानुगमः-प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतावृत्तिरूपवत्वं हेत्वाभासत्वम् वृत्तित्वञ्च स्वविशिष्टनिश्चयत्वच्यापकत्वसम्बन्धेन । स्ववैशिष्ट्यञ्च निश्चये स्वावच्छिन्नविषयितावत्त्व-स्वावच्छिन्नविषयिताव्यापकविषयिताकान्यनिरूपितविपयिताशून्यत्वोभयसम्बन्धेनेति ध्येयम् । __ प्रकारविधयाऽनुगमस्तु प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकता. वृत्तिव्यापकतारूपाभावीयावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपिप्तप्रतियोगित्वनि . छावच्छेदकतानिरूपितभेदनिष्ठावच्छेदकतानिरूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपितनिश्चयनिष्ठावच्छेदकतानिरूपिता या स्वव्यापकविपयिताकान्यनिरूपितविषयित्वाभाववत्व-स्वरूपोभयसम्बन्धावच्छिन्नविषयितानिष्ठावच्छेदकता तन्निरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्धर्मवत्वं हेत्वाभासत्वमिति ।
"Aho Shrutgyanam"