________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
पक्षतावच्छेदकाद्यंशेऽन्याप्रकारकत्वादिनिवेशस्याशक्यत्वात्,
१०६
* चन्द्रकला *
चोक्तरीत्याऽपि पचतावच्छेदकांशेऽन्याऽप्रकारकत्वविवक्षणे असम्भवादिवारणेऽपि हृदो वह्निमान् हदत्वादित्यादौ वह्नय भाववद्वृत्तित्वविशिष्टहदत्व रूपव्यभिचारेऽव्याप्तिः, अवच्छेदकत्वरूपव्यधिकरणसम्बन्धेन हृदत्वनिष्ठपक्षतावच्छेदकत्वाऽभावस्य हृदत्वत्वादी सवेन तादृशदत्वत्वादिनिष्ठप्रकारत्वाऽनिरूपकत्वस्य तादृशव्यभिचारनिश्चये विरहात् । व्याप्तिग्रहप्रतिबन्धकत्वानुरोधेन निरुक्त्तव्यभिचारनिश्चये हृदत्वत्वादेः प्रकारतया भानस्यावश्यकत्वादिति पचतावच्छेदकांश ऽन्याऽप्रकारकत्वनिवेशनं कथमपि न सम्भवतीति तात्पर्यम् ।
केचित्तु निरुक्तरीत्या पचतावच्छेदकांशेऽन्याऽप्रकारकत्वविवक्षणे हृदो जात्यभाववानित्यादौ जातिमद्दरूपबाध एवाव्याप्तिः, निरुक्तत्राघनिश्चये जातित्वस्यापि हृदत्वांश प्रकारत्वाभ्युपगमात् तादृशप्रकारत्वानिरूपकत्वस्य यथोक्तत्राघनिश्चये विरहादित्येवमविशेषितेत्यादेस्तात्पर्यमित्याहुः, तच्चिन्त्यम्, निरुक्तबाधनिश्वये हृदत्वां जातित्वादेः प्रकारताया अप्रामाणिकत्वादिति ध्येयम् ।
नन्वेवमपि नाऽसम्भवः, यादृशविशिष्ठे लक्षणं संगमनीयं तादृशविशिष्टघटकीभूता यावन्तः पदार्थाः तत्तत्प्रत्येकभेदकूटवन्तो ये ये पदार्थाः तत्तत्पदार्थविषयकत्वाभावकूटवत्त्वस्य यद्रूपावच्छिन्न विषयकनिश्चये विशेषणत्वोपगमात् वहन्यभावकलाविलासः
पक्षतावच्छेदकाद्यंश इति । यत्र यदि पक्षतावच्छेदकनिष्ठविशेष्यतानिरूपिता अवच्छेदकत्वसम्बन्धावच्छिन्न प्रतियोगिताकपक्षतावच्छेदकत्वाभाववन्निष्ठा या प्रकारता तदनिरूपकत्वमेत्र पक्षतावच्छेदकांशेऽन्याप्रकारकत्वं तदा हदो वह्नयभाववानितिज्ञानेऽपि सामानाधिकरण्यसम्बन्धेन धर्मिपारतन्त्र्येण वह्नयभावस्य हृदत्वे प्रकारतया असम्भवापत्तेरिति न शक्यम् । विशेष्यताविशिष्टप्रकारत्वाऽनिरूपकत्वमेव पक्षतावच्छेदकांशेऽन्यामकारकत्वम्, वैशिष्ट्यं स्वनिरूपितत्व - स्वावच्छिन्नावच्छेदकताकविशेष्यतानिरूपित प्रकारत्वानवच्छिन्नरवोभयसम्बन्धेन, जातिमान् वह्नयभाववानितिज्ञानीयजातित्वनिष्ठप्रकारतैव तादृशविशेष्यताविशिष्टा, हदत्वनिष्ठविशेष्यसाया एव स्वपदेनोपादातुं शक्यत्वात् । विशेष्यताविशिष्टप्रकारतायाञ्च श्रवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकपक्षतावच्छेदकत्वाभाववन्निष्टत्वमपि विशेषणं देय
मित्यम्रे व्यक्तीभविष्यति ।
"Aho Shrutgyanam"