________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपैतम् १०५
® गादाधरी अविशेषितधर्मावच्छिन्नपक्षकादिस्थलीयस्य किञ्चिद्विशिष्टतद्घटितस्यातरयासंग्रहेण च
* चन्द्रकला वह्निमानित्यादिस्थलीयो यो वह्नयभावविशिष्टजलबद्पो बाधात्मको दोषस्तस्याऽसंग्रहे. त्यर्थः । पक्षतावच्छेदकनिष्ठविषयतानिरूपितकिञ्चिनिष्ठप्रकारत्वाऽनिरूपकत्वरूपपक्षतावच्छेदकांशेऽन्याऽप्रकारकत्वस्य यद् रूपावच्छिन्न विषयकनिश्चये विवक्षणे निरुक्तरीत्याऽसम्भववारणसम्भवेऽपि जलवान् वह्निमानित्यादौ वह्नयभावविशिष्टजलवद्रूपबाधेऽव्याप्तिः, जलवान् वह्नयभाववानित्याकारके वह्नयभाववजलवत्वरूपयद्पावच्छिन्नविषयकनिश्चये पक्षतावच्छेदकजलनिष्ठविषयतानिरूपिततादृशजलत्वनिष्ठप्रकारतानिरूपकत्वस्यैव सत्वेन ताशप्रकारत्वाऽनिरूपकत्वविरहात् ताशबाधत्वस्य यद्पानात्मकत्वादिति तु समुदितग्रन्थतात्पर्यम् ।
ननु पक्षतावच्छेदकांशेऽन्याऽप्रकारकत्वं न पक्षतावच्छेदकनिष्ठविषयतानिरूपितकिञ्चिनिष्ठप्रकारत्वाऽनिरूपकत्वम् अपितु पक्षतावच्छेदकनिष्ठविषयतानिरूपिता या अवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकपक्षतावच्छेदकत्वाभाववनिष्ठसामानाधिक • रण्यसम्बन्धानवच्छिन्ना प्रकारता तदनिरूपकत्वम् , तस्यैव यद्पावच्छिन्नविषयकनिश्चयविशेषणत्वोपगमान्न निरुक्ताव्याप्तिः, जलनिष्ठपक्षतावच्छेदकताया अवच्छेदकत्वसम्बन्धेन जलत्व एव वर्तमानतया तेन सम्बन्धेन तदभावस्य द्रव्यत्वप्रमेयत्वादौ सत्त्वेन तनिष्ठप्रकारत्वाऽनिरूपकत्वस्य जलवान् वन्यभाववानित्याकारकनिश्चयेऽक्षतत्वात् । नवा जातित्वादिना ह्रदत्वावगाहिज्ञानमादायाऽसम्भवः ? हृदो वह्निमानित्यादौ हृदत्वादेः स्वरूपत एव पशतावच्छेदकतया अवच्छेदकत्वसम्बन्धस्य तन्निष्ठपक्षतावच्छेदकताया व्यधिकरणसंसगत्वेन तेन सम्बन्धेन हृदत्वनिष्ठपक्षतावच्छेदकत्वाभावस्य सर्वत्र वर्तमानस्य जातित्वादावपि वर्तमानताया आवश्यकत्वात् तादृशजातित्वादिनिष्ठप्रकारत्वानिरूपकत्वस्य जातिमान् वन्यभाववानित्याकारकशाने विरहात् लक्ष्यीभूतविशिष्टनिश्चयमादायैव सर्वत्र लक्षणसमन्वयसम्भवात् । हृदो वह्नयभाववानित्याकारकशाने पारतन्त्र्येण वह्नयभावस्यापि सामानाधिकरण्यसम्बन्धेन ह्रदत्वादौ प्रकारत्याभ्युपगमे पुनरसम्भवतादेवस्थ्यं स्यादतस्तादृशाभाववनिष्ठप्रकारतायां सामानाधिकरण्यसम्बन्धानवच्छिन्नत्वनिवेश इति ध्येयम् ।
शेषमशेषमन्यत्र वक्ष्याम इत्युक्तावपि न निस्तार इत्याह अविशेषितेति । निरवच्छिन्नपक्षतावच्छेदकताश्रयधर्मावच्छिन्नपशकस्थलीयस्यापीत्यर्थः । किञ्चिद्विशिष्टेति । किञ्चिद्धर्मविशिष्टपक्षतावच्छेदकघटितदोषस्यासंग्रहेण चेत्यर्थः । तथा
"Aho Shrutgyanam"