________________
१०४
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
६ गादाधरी दो वह्निमानित्याद्यनुमित्यविरोधित्वादसम्भवः । जलवान् वह्निमानित्यादिस्थलीयदोषासंग्रहेण
* चन्द्रकला * असम्भव इति । तथाच जातित्वादिना -हदत्वावगाहिनि जातिमान् वन्यभाववानित्याकारकज्ञानेऽपि अधिकन्त्वित्यादिन्यायेन लक्ष्यतावच्छेदकवन्यभावविशिष्टहदत्वावच्छिन्नविषयकत्वस्यावश्यकतया तादृशज्ञाने च हृदादिधर्मिकवन्याद्यनुमितिप्रतिबन्धकत्वविरहे प्रकृतानुमितिप्रतिबन्धकताया वहन्यभावविशिष्टहृदत्वावच्छिन्नविषयकत्वाऽव्यापकत्वात् तादृशहदत्वस्य यद्रूपपदेनोपादानाऽसम्भवात् ।
एवं धूमवान् वढेरित्यादावपि जातित्वादिना वह्नित्वावगाहिजातिमान् धूमाभाववद्वृत्तिरित्याकारकशानेऽपि धूमाभाववद्वृत्तित्वविशिष्टवह्नित्वावच्छिन्न विषयकत्वस्याक्षततया तादृशज्ञानमादायैव व्यभिचारादौ लक्षणसमन्वयाऽसम्भवात् भवत्यसम्भवः इति भावः । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे ह्रदत्वनिष्ठजातित्वावच्छिन्नविषयतायास्तथात्वाभावेनाऽसम्भववारणसम्भवेऽपि पूर्वोक्तरीत्या पुनर्वाधायेकदेशेऽतिव्याप्तिवारणमशक्यं स्यादित्यवधेयम् ।
ननु लक्ष्यतावच्छेदकत्वेनाभिमतयद्रूपावच्छिन्नविषयकनिश्चये पक्षतावच्छेदकांशेन्याप्रकारकत्वं विवक्षणीयं तच्चेदानी पक्षतावच्छेदकनिष्ठविषयतानिरूपितकिञ्चिनिष्ठप्रकारत्वाऽनिरूपकत्वम् , तथाच नाऽसम्भवः, वहन्यभावविशिष्टन्हदत्वावच्छिन्नविषयकत्वक्त्यपि जातित्वादिना हृदत्वावगाहिनि जातिमान् वहन्यभाववानित्याकारकज्ञाने हदत्वरूपपक्षतावच्छेदकनिष्ठविषयतानिरूपिततादृशजातित्वनिष्ठप्रकारतानिरूपकत्वस्यैव सत्वेन तादृशप्रकारत्वाऽनिरूपकत्वस्य तत्र विरहात् तादृशयद्रूपावच्छिन्नविषयकनिश्चयपदेन तादृशाधिकावगाहिज्ञानस्य धत्त मशक्यत्वादित्याह जलवानिति । जलवान्
* कलाविलासः * व्यापकतावच्छेदकरूपभेदेन व्यापकताया भिन्नत्वात् वह्नयभावत्वावच्छिन्नहृदत्वव्यापकताघटितनिरुक्तवाधविपयितायास्तादृशज्ञानेऽसत्वादिति चेन्न, स्वरूपत्वांशे प्रमेयत्वावगाहिहदः हृदत्वव्यापकवह्नयभावप्रतियोगिकप्रमेयवता वह्नयभाववानितिज्ञानमादायासम्भवसम्भवात् ।
केचितु अवच्छेदावच्छेदेन विशिष्ट्वुद्धी उद्देश्यतावच्छेदकतापर्याप्त्यधिकरणधर्मनिरूपितव्यापकत्वमेव संसर्गाशे भासते नतु उद्देश्यतावच्छेदकतावच्छेदकधर्मावच्छिन्नत्वमिति जातित्वेन हृदत्वस्यैवोद्देश्यतावच्छेदकतया हरवव्यापकवयभावप्रतियोगिकस्वरूपेण वह्वयभाववान् जातिमान् इतिज्ञानमादायैवाऽसम्भवसम्भव इत्यप्याहुः ।
"Aho Shrutgyanam"