________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१०३ छ गादाधरी अथैवमपि जातित्वादिना ह्रदत्वादिविषयकस्य जातिमान् वह्नयभाववानित्यादिज्ञानस्यापि वह्नयभाववदुहृदत्वाद्यवच्छिन्नविषयकतया तस्य च ह्र
___ * चन्द्रकला * यवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयकत्वत्वावच्छिन्नव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वमित्यस्यैव लक्षणार्थतया न शद्धहदेऽतिव्याप्तिः, ह्रदत्वावच्छिन्नविषयकत्वत्वावच्छिन्नस्य ह्रदमात्रविषयकेऽपि ज्ञाने सत्वेन तत्राऽनुमितिप्रतिबन्धकताया विरहात्, केवलहृदत्वस्य यद्रूपानात्मकत्वादित्याशयः ।
शंकते अथैवमपीति । निरुक्तानतिरिक्तवृत्तित्वविवक्षया शुद्धहदेऽतिव्याप्तिवारणेऽपीत्यर्थः । अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षणेऽपीति वार्थः । जातित्वादिनेति । आदिना प्रमेयत्वादिपरिग्रहः । तेन यत्राकाशत्वादी जातित्वाऽप्रसिद्धिस्तत्र ताहशधर्मावच्छिन्नपक्षकरूपादिसाध्यकस्थले लक्षणसमन्वयसम्भवात् कथमसम्भव इति पूर्वपक्षोऽपि निरस्तः।
___ कलाविलासः एवञ्च वह्नयभावविशिष्टहदत्वगतसमुदायत्ववृत्तिनिरूपकताकविषयिताया जातिमान् वह्नयभाववानितिज्ञाने विरहान्न तन्मतेऽसम्भवः । भट्टाचार्यमते च यादशसमु. दायस्वावच्छिन्नानुयोगिताकपर्याधिकावच्छेदकताकनिरूपकताकविषयित्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तीत्यादिरीत्या लक्षणार्थस्य निर्वाच्यतया जातिमान बह्नयभाववानितिज्ञाने जातित्वस्याधिकस्य भानेऽपि वह्नयभाववद्ध्दत्वस्य निरूपकतावच्छेदकघटकतया वह्नयभाववद्ध्दस्वगतसमुदायस्वावच्छिन्नानुयोगिताकपर्यातिकावच्छेदकतानिरूपकताकविषयितायाः तत्र सत्त्वादसम्भवसंगतिः । नच भट्टाचार्येणापि यादृशसमुदायत्ववृशिनिरूपकताकविषयित्वं इत्येवं कथं न निवेशितमिति वाच्यम् ? यादृशस्थले घटवद् भूतलमितिज्ञानं वह्नयभाववद्धद इतिज्ञानात्मकमेव जायते यदा च वह्नयभाववान् हृद इतिज्ञानानात्मकं तदा घटत्वांशे नियमतः जातित्वावगाह्येव भवति, तत्र घटवद्भूतलेऽतिव्याप्तिः, जगदीशमते तु एतादृशाङ्कुरे प्रमाणाभावात् न कोऽपि दोषः ।
जातिवादिना ह्रदत्वादीति । ननु हृदस्वसामानाधिकरण्येन वह्निसाध्यकस्थले हृदत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभाववद्धदरूपवाधे लक्षणसमन्वयात् कथमसम्भवः ? भट्टाचार्यमते एकदेशव्यापकताया अनभ्युपगमेन जातिमान् वयभाववानितिज्ञाने हृदत्वव्यापकताया अभानात् । नच अभावत्वांशे प्रमेयस्वावगाहिहृदो वह्वीयप्रमेयवत्त्वानितिज्ञानमादायाऽसम्भवसंगतिरिति वाच्यम्,
"Aho Shrutgyanam"