________________
१०२ - अनुमानगादाध- सामान्यनिरुक्तिप्रकरणम्
गादाधरी शुद्धह्रदत्वाद्यवच्छिन्नेऽतिप्रसङ्गाच्च ।
मन्मते चानुमितिप्रतिबन्धकतायास्ताहशनिश्चयवृत्तित्वविशिष्टह्रदत्वाद्यवच्छिन्नविषयितात्वावच्छिन्नव्यापकताविरहेणातिप्रसङ्गानवकाशात् ।
___ * चन्द्रकला * विषयकज्ञानवृत्तित्वेन तत्र तादृशनिश्चयावृत्तित्वसम्पादनमसंगतं स्यादित्याशयेनाह शुद्धति । केवले ह्रदत्वविशिष्ट हृदे इत्यर्थः । अतिप्रसंगाच्चेति । निरुक्तानतिरिक्तवृत्तित्वघटितस्य लक्षणार्थत्वे ह्दो वह्निमान् धूमादित्यादौ केवल-हदत्वावच्छिन्ने हदेऽतिव्यासिः, वह्नयभाववान्-हद इत्याकारकयत्किञ्चिज्ज्ञानीय हदत्वावच्छिन्नविषयताकत्वस्य प्रकृतानुमितिप्रतिबन्धकत्वाभाववति हद इत्याकारकतादृशनिश्चयेऽप्यवृत्तित्वादतो नोक्तरूपेणानतिरिक्तवृत्तित्वं वक्तव्यमिति भावः ।
नन्वेवमपि स्वव्यापकतत्कत्वरूपानतिरिक्तवृत्तित्वघटितलक्षणेऽपि शुद्धह्रदत्वावच्छिन्नेऽतिव्याप्तिदुर्वारा स्यात् , वन्यभावविशिष्टह्रदत्वावच्छिन्नविषयकयत्किञ्चिज्ञानीयहृदत्वावच्छिन्नविषयताकत्वस्य वन्हन्यभावविशिष्टह्रदनिश्चय एव वत्तमानतया तत्र हृदधर्मिकप्रकृतानुमितिप्रतिबन्धकत्वस्य सत्त्वात् यद्रूपपदेन शुद्धह्रदत्यस्य धत्तुं शक्यत्वादित्यत आह मन्मत इति । स्वव्यापकतत्कत्वरूपप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्ववादिनां मते इत्यर्थः । अनुमितीति । ह्रदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकेत्यादिः । तादृशेति अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्चयार्थकम् । अतिप्रसंगानवकाशादिति । तथाचास्मन्मतेऽनाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्च
* कलाविलासः * शुद्धहदत्वावच्छिन्नेऽतिप्रसंगाच्चेति । नन्वत्र कल्पे पक्षाऽघटितसाध्यव्यापकीभूताभावप्रतियोगित्वविशिष्टहेतुरूपाऽसाधारण्येऽव्याप्तिः, निरुक्ताऽसाधारण्यविषयिताया अनुमितिप्रतिबन्धकताशून्यतादृशनिश्चयवृत्तित्वादिति चेन्न, पक्षधर्मिकहेतुमत्ताज्ञानकालीनानुमितिप्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वस्य विवक्षितत्वात् । ताहशासाधारण्यज्ञानं यदि पक्षधर्मिकहेतुमत्ताज्ञानकालीनं तदाऽनुमितिप्रतिबन्धकमेव भवतीत्यदोषः।
ननु जातित्वेन हृदत्वावगाहिजातिमान् वह्नयभाववानितिज्ञानवारणाय जगदीशेनाव्यापकीभूतविषयिताशून्यत्वं न निवेशितम्, भट्टाचार्येण तु निधेशित्तमनयोः कोऽभिप्राय इति चेन्न? जगदीशमते यादृशसमुदायत्ववृत्तिनिरूपकताकविषयित्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशसमुदायत्वविशिष्टवरवं लक्षणार्थः ।
"Aho Shrutgyanam"