________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१०१
___ गादाधरी तथासति मूलोक्तस्य ज्ञानस्येत्यस्य वैयर्थ्यप्रसंगाद्, हृदत्वाद्यवछिन्ना या वह्नयभावविशिष्टह्रदत्वाद्यवच्छिन्नविषयकयत्किञ्चज्ञानीयविषयता तन्निरूपकत्वस्य प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वेन
* चन्द्रकला* निरुक्तं मतं दूषयति तथासतीति । प्रतिबन्धकताशून्यतादृशनिश्चयाऽवृत्तित्वस्यानतिरिक्तवृत्तित्वस्वरूपत्वे सतीत्यर्थः । मूलोक्तति । लिंगपदस्थाविवक्षिततया यदिषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वमितिमूलोक्तलक्षणघटकज्ञानस्येत्यर्थः । वैयर्थ्यप्रसंगादिति । ज्ञानस्येत्यनुक्तौ लक्ष्यतावच्छेदकोभूतयद्र पावच्छिन्नविषयकत्वस्य संस्कारादिनिष्ठत्वेऽपि तस्यानुमितिप्रतिबन्धकताशून्यतादृशोदासीनघटादिनिश्चयाऽवृत्तितयैव सर्वत्र लक्षणसमन्वयसम्भवे यद्र पावच्छिन्न विषयकत्वे ज्ञाननिष्ठत्वाभिधानं निरर्थकमितिज्ञानस्येत्यस्य व्यर्थताया ध्रौव्यादित्यर्थः ।
ननु प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वरूपतृतीयार्थान्वयबोधे षष्ठयन्तज्ञानपदसमभिव्याहृततृतीयान्तयद्विषयकत्वज्ञानं हेतुरित्युक्तौ न ज्ञानस्येत्यस्य वैयर्थ्यम् , अन्यथा यद्विषयकत्वेनानुमितिप्रतिबन्धकत्वमित्यादितोऽपि तादृशनिश्चयावृत्तित्वरूपानतिरिक्तवृत्तित्वप्रत्ययः स्यादिति यदि ब्रूयात्तदाप्याह हृदत्वेति । ह्रदत्वावच्छिन्ना या वह्नयभाववान् हृद इत्याकार कयत् किश्चिन्शानीयविषयता सेत्यर्थः । तन्निरूपकत्वस्य- ताहशशुद्धहृदत्वावच्छिन्नविषयतानिरूपकत्वस्य , ह्रदत्वावच्छिन्नविषयकत्वस्येति यावत् । प्रतिबन्धकतेति । हृदादिधर्मिकवह्नयाद्यनुमितीत्यादिः । हृद इत्याकारकनिश्चयेऽपि तादृशविलक्षणह्रदत्वावच्छिन्नविषयताकत्वस्यावर्त्तमानत्वात् । अत एव तादृशयत्किञ्चित्त्वं ज्ञानविशेषणमन्यथा ज्ञानसामान्यान्तर्गतहद इत्याकारकज्ञाननिरूपितहृदत्वावच्छिन्नविषयतानिरूपकत्वस्य अनुमितिप्रतिबन्धकताशून्यह्रदमात्र.
* कलाविलासः * विशिष्टलाभान्न ज्ञानपदवैयर्थमतो दूपणान्तरमाह हृदत्वाद्यवच्छिन्न इति ।
ननु तथापि अनुमितिप्रतिबन्धकताशून्यानाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तिविषयितानिरूपकतावच्छेदकं यदूपं तद्रूपवस्वं दोषत्वमितिविवक्षया शुद्धहदरवावच्छिन्नेऽतिध्याप्तिवारणसम्भवे स्त्रव्यापकतत्कत्वविवक्षणं व्यर्थमिति चेन्न, संयोगाभाववान् संयोगवानितिज्ञानस्य नियताहार्यतया अनाहायज्ञानवृत्तिविषयतानिरूपकतानवच्छेदकत्वस्य संयोगवत्संयोगाभाववत्त्वे सत्त्वेन तत्रातिव्यातयापत्तेरिति ध्येयम्।
"Aho Shrutgyanam"