________________
अनुमानगादाध- सामान्यनिरुक्तिप्रकरणम्
ॐ गादाधरी यत्त प्रतिबन्धकताशून्यतादृशनिश्चयावृत्तित्वमेवानतिरिक्तवृत्तित्वम् , अतो नोक्तरीत्या असम्भव इति, तदसत् ,
* चन्द्रकला ॐ निरुक्तरीत्या सम्भवतोऽसम्भवस्य वारणाय अन्यप्रकारेणानतिरिक्तवृत्तित्वमभिदधतां मतं दूषयितुमुपन्यस्यति यत्त्विति । एवञ्च प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकतात्वावच्छिन्नाभाववति अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयेऽवतमानं यत्पावच्छिन्नविषयकत्वं तद्र पवत्वं हेत्वाभासत्वमिति निरुक्तमतसिद्धानतिरिक्तवृत्तित्वघटितं लक्षणं पर्यवसितम् । ह्रदो वह्निमान् धूमादित्यादौ वह्नय. भावविशिष्टह्रदत्वाधवच्छिन्न विषयकत्वस्य हृदादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकताशून्ये तादृशे घटादिनिश्वयेऽवर्तमानत्वाद् बाधादौ लक्षणसमन्वयः । ह्रदो वह्निमान्नवेत्याकारकसंशये हृदो वह्नयभाववानिदं ज्ञानमप्रमेत्याकारकाप्रामाण्यज्ञानास्कन्दिते ह्रदो वह्नयभाववानित्याकारकज्ञाने वह्निमान् हृदो वह्नयभाववानित्याकारकाहार्यज्ञाने च प्रकृतानुमितिप्रतिबन्धकताशून्ये वह्नयभावविशिष्टहृदादिविषयकत्वस्य वृत्तित्वादसम्भवः स्यादतः प्रकृतानुमितिप्रतिबन्धकताशून्यत्वं अनाहार्याप्रामाण्यज्ञानानास्कन्दितसंशयान्यज्ञानरूपतादृशनिश्चयविशेषणमुक्तम् । तथाच तादृशोदासीनवटादिनिश्चयमादायैव सर्वत्र लक्षणसमन्वयः स्वयमूहनीयः । नोक्तरीत्येत्यादि । विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमरीत्या नासम्भव इत्यर्थः ।
___* कलाविलासः * अभावस्थाधिकरणभेदेन भिन्नत्वमते पटनिष्ठप्रतिबन्धकत्वाभावस्य घटविषयकनिश्वयाऽवृत्तितया घटेऽतिव्यात्यापतेः। प्रकृतानुमितिप्रतिबन्धकत्वाभावत्वं यद्रूपावच्छिन्नविषयकनिश्चयवृशितानवच्छेदकं तद्रूपवत्त्वमित्युक्तौ घटादावतिव्याप्तिवारणेऽपि विशेष्यवृत्रिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमेऽसम्भवापतेः । केवलाभावत्वे वह्नयभावादिमद्धदादिनिश्चयवृतितावच्छेदकत्वसत्त्वेन प्रतिबन्धकताविशिष्टाभावस्वे तादृशनिश्चयवृत्तितानवच्छेदकत्वस्य दुर्घटत्वात् , पर्याप्त्यादिनिवेशे च लाघवानवकाशात् ।
यद्विषयकत्वेनेत्यत्र तृतीयायाः शून्यत्वमवृत्तित्वञ्चार्थः । शून्यत्वे प्रतिबन्धकत्वस्य, शून्यत्वस्य मूलोक्तज्ञानपदार्थे निश्चये, निश्चयस्याऽवृत्तित्वेऽनक्यात्
"Aho Shrutgyanam"