________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी * नतु तच्छ्रन्यावृत्तित्वम् , तादृशनिश्चयवृत्तित्वविशिष्टस्य विशिष्टविषयकत्वस्य विशेष्यीभूतविशिष्टविषयकत्वानतिरिक्ततया तस्यातिप्रसक्तत्वेन विशिष्टे तस्मिन्ननतिप्रसक्तत्वस्य दुर्घटत्वात् ।
चन्द्रकला, ननु प्रतिबन्धकतानतिरिक्तवृत्तित्वस्य यथाश्रुतप्रतिबन्धकत्वाभाववदवृत्तित्वरूपार्थकताया:प्रसिद्धतया तस्य तादृशार्थकत्वानभिधानमनुचितमित्यत आह नत्वित्यादि । प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतात्वावच्छिन्नाभाववदवृत्तित्वं यद्रपावच्छिन्नविषयकत्वनिष्ठं तादृशानतिरिक्तवृत्तित्वं इति तु नेत्यर्थः। कुत इत्याकांदायामाह विशिष्टेति । वह्नयभावादिविशिष्टहृदादिविषयकत्वस्येत्यर्थः । विशेष्यीभूतेति! केवलहदादिविषयकत्वाऽभिन्नतयेत्यर्थः। तस्य = केवलहदादिविषयकत्वस्य । अतिप्रसक्तत्वेन = हृदादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकत्वाभाववति हृद इत्याकारकज्ञाने वर्तमानत्वेन । विशिष्टे = वढ्यभावादिविशिष्टहृदादिविषयकत्वे । अनतिप्रसक्तत्वस्य = तादृशानुमितिप्रतिबन्धकत्वाभाववदवृत्तित्वस्य । दुर्घटत्वादिति । तथाच तादृशप्रतिबन्धकत्वाभाववदवृत्तित्वरूपानतिरिक्तवृत्तित्वविवक्षणे हृदो वह्निमानित्यादिस्थलीयबाधादौ सर्वत्राऽसम्भवः, वह्नयभावविशिष्टह्रदविषयकत्वस्य हृदविषयकत्वाभिन्नतया अनुमितिप्रतिबन्धकताशून्ये हृद इत्याकारकज्ञाने वर्तमानस्य हृदमात्रविषयकत्वस्य अनुमितिप्रतिबन्धकत्वाभावववृत्तितया वह्नयभावविशिष्टहदादिविषयकत्वे ताशप्रतिबन्धकत्वाभाववदवृत्तित्वोपपादनस्याशक्यत्वात् विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमादित्याशयः ।
* कलाविलासः * नविपयकनिश्चयावं प्रकृतानुमित्यव्यवहितप्राक्क्षणवृत्तिज्ञानावृत्ति तद्रूपवत्त्वमित्युक्तौ नेयमतिव्याप्तिः, वह्नयभावव्याप्यप्रकारकबुद्धौ वह्निमत्पर्वतनिश्चयस्याप्रतिबन्धकतया निरुक्तनिश्चयत्वस्य तादृशानुमितिप्राक्क्षणवृत्तिज्ञानवृत्तित्वादिति वाच्यम्, तथा सति हृदो वह्निमान् जलवद्धदकालीनदव्यत्वादित्यादौ वह्नयभाववज्जलवत्यतिव्याप्त्यापत्तः, जलवान् वलयभाववानित्याकारकनिश्चयोत्तरं जलवद्धदविषयकानाहार्यहदधर्मिकवयनुमितेरप्रसिद्धतया वह्नयभाववज्जलवत्त्वावच्छिन्न विषयितायाः प्रकृतानुमित्यव्यवहितप्राक्क्षणवृत्तिवटादिज्ञानाऽवृत्तित्वात् ।
ननु तथापि स्वव्यापकतत्कस्वनिवेशनमनर्थकम्, प्रकृतानुमितिप्रतिबन्धकत्वाभावो ग्ररूपावच्छिन्नविषयकनिश्चयावृत्तिस्तद्रूपवत्त्वमित्यस्यैव सम्यक्त्वादितिचे न,
"Aho Shrutgyanam"