________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी * अनतिरिक्तवृत्तित्वं स्वव्यापकतत्कत्वम्
* चन्द्रकला * वहन्यभाववढ्दादिनिश्चयत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वादित्याशयः।
ननु प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वं यदि प्रतिबन्धकतावत्ताहशनिश्चयवृत्तित्वं तदा वन्यभावाद्येकदेशेऽतिव्याप्तिर्वारा स्यात् , केवलवन्यभावत्वाद्यवच्छिन्नविषयकत्वस्यापि प्रकृतानुमितिप्रतिबन्धकतावद्वृत्तित्वादत आहानतिरिक्तति । निरुक्तलक्षणे इत्यादिः । स्वव्यापकेति । स्वं यद्रूपावच्छिन्नविषयकत्वं तद्व्यापकं यत् प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वं तत्कत्वं स्वस्मिन् अनतिरिक्तवृत्तित्वमित्यर्थः। तथाच अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टयद्पावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमिति फलितम् । भवति हि ह्रदो वह्निमान् धूमादित्यादी वन्यभावविशिष्टह्रदत्वं अयं धूमवान् वढेरित्यादी धूमाभावववृत्तित्वविशिष्टवह्नित्वादिकञ्च यद्पपदेनादाय वन्यभाववढ्दरूपबाधादौ धूमाभावववृत्तित्वविशिष्ट वहन्यादिरूपव्यभिचारादौ च लक्षणसमन्वयः, तादृशबाधत्वव्यभिचारत्वाद्यवच्छिन्नविषयकत्वव्यापकतायाः प्रकृतानुमितिप्रतिबन्धकतायां सत्त्वादिति भावः।
* कलाविलासः * इति वाच्यम्, अप्रामाण्यज्ञानाभावानुपादान एवासम्भवस्याभिधानात् एकोक्तिसम्पादनार्थमेव संशयमादायाप्यसम्भवस्याभिहितत्वादिति वेदन्ति ।
अथाऽप्रामाण्यज्ञानादेर्नानात्वेन अनन्ततद्महाभावस्य विवक्षणीयतया गौरवमिति चेन्न, अभावविशिष्टान्यत्वस्य ज्ञानविशेषणत्वोपगमात् , वैशिष्ट्यं स्वप्रतियोगिमत्व-स्वावच्छिन्न प्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नविषयितावस्वोभयसम्बन्धेन । स्वप्रतियोगिमत्वञ्चैकक्षणावच्छिन्नैकात्मवृसित्वसम्बन्धेन । तथाच संशयान्यत्वाहार्यान्यत्वादेरप्युक्तरीत्यैव प्रवेशाल्लाघवमिति भावः ।।
स्वव्यापकतत्कत्वमिति । ननु तादृशनिश्चयत्वव्यापकत्वनिवेशे गौरवात् लाघवात् यद्पावच्छिन्नविषयकनिश्चयत्वं प्रकृतानुमित्यवृत्ति तद्रूपवत्वमित्येवं कुतो न विवक्षितमिति चेन्न, पर्वतो वह्नयभावव्याप्यवानित्यादौ वह्निमस्पर्वतेऽतिव्याप्त्यापत्तः, वह्नयभाववत्पर्वतविपयकवह्निमत्पर्वतयिषयकसमूहालम्बनानुमितेरप्रसिद्धतया वह्निमत्पर्वतनिश्चयत्वस्य प्रकृतानुमित्यवृत्तित्वात् । नच तथापि यद्रूपावच्छि
"Aho Shrutgyanam"