________________
६७
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी * नच विशिष्टविषयकत्वस्याप्रतिबन्धकसंशयादौ सत्त्वात् पुनरसम्भव इति वाच्यम् , ज्ञानस्येत्यत्र ज्ञानपदमनाहा-प्रामाण्यज्ञानानास्कन्दितनिश्चयपरं, षष्ठ्यर्थ प्राधेयत्वं तस्य यद्विषयकत्वेऽन्वयः। एवञ्च तादृशनिश्चयवृत्तित्वविशिष्टं यादृशविशिष्टविषयकत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशत्वस्य विवक्षणीयतया असम्भवाभावात् ।
ॐ चन्द्रकला वानित्याकारकाहायज्ञाने च सत्त्वात् तत्र च प्रकृतानुमितिप्रतिबन्धकताविरहेण तादृशबाधादिविषयकत्वस्थानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वादित्येवं नचेत्यादिना आशंक्य समाधत्ते ज्ञानस्येत्यादि । मूलोक्तलक्षणघटकीभूतस्येत्यादिः।
अनाहायति । आहार्यज्ञानभिन्नत्वे सति अप्रामाण्यज्ञानानास्कन्दितत्वे च सति संशयान्यज्ञानपरमित्यर्थः । तस्य = आधेयत्वस्य । आधेयत्वे च षष्ठ्यथें प्रकृत्यर्थस्य तादृशनिश्चयात्मकज्ञानस्य निरूपितत्वसम्बन्धेनान्वयो बोध्यः । यद्विषयेति । यथा. व्याख्यातयद्पावच्छिन्नविषयकत्वेन सहान्वय इत्यर्थः। तथाच नासम्भव इत्याह एवञ्चति । तादृशेति । अनाहार्याप्रामाण्यज्ञानानास्कन्दितसंशयभिन्नज्ञानात्मकनिश्चयवृत्तित्वविशिष्टमित्यर्थः । यादृशविशिष्टेति यद्रूपावच्छिन्नार्थकम् । तादृशत्वस्य = तद्रूपावच्छिन्नत्वस्य । असम्भवाभावादिति अनाहार्यत्वादिविशिष्टस्य
* कलाविलासः * रूपाश्रयासिद्धौ लक्षणसमन्वयात् द्रव्यत्वनिष्ठनिरवच्छिन्नप्रकारताकदव्यत्वविशिष्टविपयताशालिनिश्चयत्वस्यैव प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणत्वादिति तु विभावनीयम् ।
पर्याप्तिश्च यद्पावच्छिन्नविषयकनिश्चय चावच्छिन्नभेदप्रतियोगितावच्छेदकता. स्वावच्छिन्नप्रतियोगिताकपर्याप्यनुयोगितावच्छेदकरूपवृत्तिप्रतिबन्धकतेत्यादिरीत्या विवक्षणीया । लक्षणन्तु तादृशतद्रूपवत्त्वस्वरूपमत्राभिनतम् । रूपवृत्तित्वं च स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । स्वम् प्रतिबन्धकत्वमिति ध्येयम् । ___ संशयादौ सत्त्वात् पुनरसम्भव इति । नच जातिमान् वयभाववानितिज्ञानवारणायाध्यापकीभूतविषयिताशून्यत्वस्य ज्ञानविशेषणताया अावश्यकतया तत एव संशयमादायाऽसम्भवारणसम्भवे निश्चयत्वाऽप्रवेशे कथमसम्भवाभिधानं संगच्छते
"Aho Shrutgyanam"