________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १०९
* गादाधरी * जातित्वाद्यवच्छिन्नस्य हृदत्वादेन वह्नयभाववद्दत्वावच्छिन्नात्मकदोषघटकतेति जातित्वाद्यवच्छिन्नह्रदत्वादिविषयता तादृशविषयताभिन्नैव, तच्छून्यत्वञ्च नोक्तज्ञानस्येति न दोषः, इत्यपि न सत् ? तथासति हृदो जात्यभाववानित्यादिस्थलीयबाधादेरेव दुःसंग्रहत्वात् । जातिवादिना ह्रदत्वादिरूपधर्मितावच्छेदकावगाहिनो जातिमान जातिमानित्यादिज्ञानस्य जातित्वाद्यवच्छिन्नदत्वादिनिष्ठधर्मितावच्छेदकतारूपविषयताया निरुक्तविषयताभिन्नत्वविरहेण तादृशज्ञानस्यानुमित्यप्रतिबन्धकस्य शून्यत्वान्तेनावारणात् । मैवम् ,
* चन्द्रकला *
जातित्त्वादिना हदत्वावगाहि ज्ञानमादाय पूर्वोक्ताऽसम्भवं वारयति जातित्वेति । जातित्वविशिष्टस्य चेत्यर्थः । तादृशेति । वन्यभावविशिष्ट-हदरूपविशिष्टघटकतावच्छेदकधर्मावच्छिन्नविषयताभिन्नैवेत्यर्थः । तच्छून्यत्वम् = जातित्वावच्छिन्नविषयताशून्यत्वम् । नोक्तज्ञानस्य-जातिमान् वन्यभाववानित्याकारकज्ञानस्य । तथाच वहन्यभावविशिष्ट-हदरूपविशिष्टदोषधटकतावच्छेदक-हदत्वाद्यवच्छिन्नविषयताभिन्ना या जातित्वावच्छिन्ना विषयता तच्छून्यताया जातिमान् वन्यभाववानितिज्ञानेऽसत्त्वात् अनुमितिप्रतिबन्धकतावति वन्यभावविशिष्ट-हदरूपबाधनिश्चय एव तच्छून्यताया वर्तमानतया सर्वत्र लक्षणसमन्वयसम्भवान्नाऽसम्भव इति समुदितग्रन्थतात्पर्यमधिकमन्यत्रानुसन्धेयम् ।
समाधानमाह तथा सतीति । निरुक्तरीत्या तादृशकिञ्चिदवच्छिन्न विषयताशून्यत्वस्य तादृशनिश्चयविशेषणत्वोरगमे सतीत्यर्थः । निरुक्तविवक्षयापि हदो जात्यभाववानित्यादौ जातिमद्-हदरूपबाधादावव्यातिः,जातिवादिना -हदत्वावगहिजातिमान्जातिमानित्याकारकज्ञानीयजातित्वावच्छिन्न हदत्वविषयतायां तादृशजातिविशिष्टहदात्मकबाधघटकतावच्छेदकजातित्वावच्छिन्नविषयताभिन्नत्वविरहेण तादृशविषयताभिन्नघटत्वाधवच्छिन्नविषयताशून्यत्वस्य जातिमान् इद इत्याकारकनिश्चये इव जातिमान्जातिमानित्याकारकनिश्चयेऽपि वर्तमानतया तत्रच हदधर्मिकजात्यभावानुमितिप्रतिबन्धकताया असत्त्वादित्याह शून्यत्वान्तेनावारणादित्यन्तेन । निरुक्तति जातिमद्दरूपमाधघटकतावच्छेदकधर्मावच्छिन्नार्थकम् । तादृशज्ञानस्यजातित्वादिना व्हदत्वावगाहिजातिमान्जातिमानितिज्ञानस्य ।
अथैवमपोत्यादेरुत्तरं मैवमिति । तयाच यद्रूपावच्छिन्नविषयितात्वं यादृशविशिष्टे
"Aho Shrutgyanam"