________________
अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
सद्धत्वादीत्यादिपदप्राह्यसाध्यशून्यपक्षकदुष्टहेतौ प्रतिबन्धकप्रमाविषयसाध्याभावादेरेव सत्वेऽपि नासङ्गतिः । उक्तव्याख्यानेऽनतिरिक्तवृत्तित्वमेवाडवच्छेदकत्वं विवक्षणीयम् ।
६४
* चन्द्रकला *
सद्धत्वादीति । सद्धेत्वादिनिष्ठे इत्यत्रादिपदग्राह्ये हृदादिपक्ष कव हयादिसाध्यकदुष्टहेतावित्यर्थः । नासंगतिरिति । भ्रमपदस्य यथाश्रुतभ्रममात्रपरत्वे याहशविशिष्ट - विषयकत्वेनेत्यनुक्तौ हृदो वह्निमान् धूमादित्यादौ धूमरूपदुष्ट हेतावपि हृदो वह्नयभाववानित्याकारकयथार्थज्ञानविषय के वलवह्नयभावादिमत्त्वस्य वर्त्तमानतया केवलसाध्याभावादिमत्त्वमादायासद्धेतावपि दुष्टताव्यवहारापत्तिवारणाय यद्विषयकत्वेनेत्यस्य यादृशविशिष्टविषयकत्वेनेत्यर्थकतायाः सद्धेत्वादिनिष्ठेनेत्यादिग्रन्थेन दीधितिकृतामभिप्रेतता हृदो वह्निमान् धूमादित्यादौ साध्याभावस्य हृदादौ भ्रमाऽप्रसिद्ध्या भ्रमविषयसाध्याभावादावित्यादिग्रन्थाऽसंगतिः स्यात् यदि भ्रमपदं निश्चयसामान्यपरं न स्यादित्याशयः ।
ननु यादृशविशिष्टविषयकत्वेनेत्यस्य यद्रूपावच्छिन्न विषयताकत्वेनेत्यर्थ करणेऽपि पर्वतो वह्निमान् धूमादित्यादौ केवल साध्याभावरूपवह्नयभावादावतिव्याप्तिः, यद्रूपपदेन वह्निविशिष्टाभावत्वस्य सर्वथा प्रसिद्धस्यैव धत्तु शक्यत्वात् तदवच्छिन्नविषयतायाः व्यपि प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वादित्यत आह उक्तव्याख्यान इति । यद्विषयकत्वेनेत्यस्य यथोक्तार्थं कयादृश विशिष्ट विशिष्टविषयकत्वेनेत्यादिव्याख्याने इत्यर्थः । अनतिरिक्तवृत्तित्वमेवेत्येवकारेण यद्रूपावच्छिन्नविषयतायां स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वव्यवच्छेदः । विवक्षणीयमिति । तथाच यद्रूपावच्छिन्नविषयताकत्व - व्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमित्युक्तौ न पर्वतो वह्निमान् धूमादित्यादौ केवलवह्न्यभावादावतिव्याप्तिः, वह्न्यभाव इत्याकारकज्ञानेऽपि वन्यभावत्वावच्छिन्नविषयताकत्वस्य सत्त्वेन तत्र प्रकृतानुमितिप्रतिबन्धकताविरहात् यद्रूपपदेन वहून्यभावत्वस्योपादानाऽसम्भवादिति भावः ।
ननु एवमपि पूर्वोक्तरीत्याऽसम्भवः ? वहून्यभावविशिष्टहदादेः शुद्धहद स्वरूपतया ह्रद इत्याकारकज्ञानेऽपि वन्यभावादि विशिष्टहृदादिविषयकत्वस्य सत्त्वेन तत्रानुमितिप्रतिबन्धकताविरहात् वह्न्यभावादिविशिष्टहृदादिरूपविशिष्टविषयकत्वमात्रस्यानुमिति* कलाविलासः *
"
चेन तादृशार्थे लक्षणाकरण प्रभाविषयसाध्याभावमादाय सम्भवदतिप्रसंग कथनप्रयुक्तन्यूनतापरिहारार्थमित्यवधेयम् ।
"Aho Shrutgyanam"