________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी* पगमे पर्वतादिविशेषणकवह्नयभावज्ञानस्य विशेषणताविशेषावच्छिन्नाधेयतासंसर्गावच्छिन्नपर्वतनिष्ठप्रकारताकत्वेन प्रतिबन्धकत्वात्तेन सम्बन्धेन पर्वतादिमत्तायाः पर्वतमहानसान्यतरत्वादिरूपसद्धतौ सत्त्वेऽपि प्रसिद्धधूमादिहेतावसत्त्वात्तत्र दुष्टताव्यवहारापत्तेरयोग इति तदनुरोधेन पक्षविशेष्यकेत्युक्तम् । भ्रमपदं निश्चयसामान्यपरम् , तेन
* चन्द्रकला * ध्येयम् । पर्वतेति । पर्वते वह्नयभाव इत्याकारकभ्रमात्मकनिश्चयस्येत्यर्थः । विशेषणतेति स्वरूपार्थकम् । प्रतिबन्धकत्वादिति । पर्वतो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमितीत्यादिः । तेनेत्यादि। स्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेनेत्यर्थः । पर्वतादिमत्तायाः = पर्वतादिनिष्ठाधेयतानिरूपिताधिकरणतायाः । तत्र - प्रसिद्धधूमादिहेतौ। तदनुरोधेन = प्रसिद्धधूमहेतौ दुष्टताव्यवहारापत्त्यनुरोधेन । पक्षविशेध्यकेत्युक्तमिति । तथाच पक्षविशेष्यकभ्रममादाय इत्यनभिधाय पक्षविषयकभ्रममादायेत्यभिधाने पर्वतो वह्निमान धूमादित्यादौ प्रसिद्धधूमादिसद्धतौ दुष्टत्वव्यवहारापत्तिर्न स्यात् पर्वतो वढिमान् वह्निध्यायधूमवानित्याकारकानुमितिं प्रति. पर्वते वढ्यभाव इत्याकारकपक्षविषयकभ्रमात्मकनिश्चयस्य पर्वतत्वावच्छिन्नपर्वतनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारताकत्वेनैव प्रतिबन्धकतया स्वरूपसम्बन्धा. वच्छिन्नाधेयतासम्बन्धेन पर्वतवत्वस्य पर्वतपक्षकवह्निसाध्यकपर्वतमहानसान्यतरत्वरूपसद्धेतौ वर्तमानत्वेऽपि तस्य प्रसिद्धधूमरूपसद्धतावसत्वात् । पक्षविशेष्यकेत्युक्तौ तु पर्वतविशेष्यकम् पर्वतो वह्नयभाववानित्याकारकभ्रममादाय प्रसिद्धधूमरूपसद्धतावेव दुष्टत्वव्यवहारापत्तिः सम्भवति, तादृशभ्रमात्मकज्ञानस्य पर्वतधर्मिकवलयाद्यनुमिती स्वरूपसम्बन्धावच्छिन्नवह्नयभावनिष्ठप्रकारताकत्वेनैव प्रतिबन्धकतया स्वरूपसम्बन्धेन वह्नयभाववत्त्वस्य प्रसिद्धधूमरूपसद्धतावनपायादिति भावः । निश्चयसामान्यपरमिति । लक्षणयेत्यादिः। तेन = भ्रमपदस्य निश्चयसामान्यपरत्वाभिधानेन ।
* कलाविलासः * भ्रमपदं निश्चयसामान्यपरमिति । अथ श्रमविषयसाध्याभावादाविति शिरोमण्युक्तादिपदात बाधितदुष्टहेतुपरामर्शेऽपि तत्रापि भ्रमाविषयसाध्याभावादिकमादाय दुष्टत्वापत्तिसम्भवे भ्रमपदस्य निश्चयसामान्ये लक्षणाकरणमनर्थकमिति
"Aho Shrutgyanam"