________________
चन्द्रकला-कलाविलासाख्यदीकाद्वयोपेतम्
*गादाधरी * विशेषणीभूतवह्नयभावाद्यविषयके शुद्धह्रदत्वादिना हृदादिविषयकज्ञाने वह्नयभावविशिष्टहदत्वाद्यवच्छिन्नविलक्षणविषयतानिरूपकत्वस्याऽसत्त्वेनोक्तासम्भवाऽनवकाशात् । तथाच केवलवह्नयभावत्वावच्छिन्नविषयकत्वस्य प्रतिबन्धकतातिरिक्तवृत्तित्वान्नातिप्रसङ्ग इत्यर्थः ।
ननु स्वरूपसम्बन्धरूपाऽवच्छेदकत्वनिवेशेऽयमेवाऽतिप्रसङ्गो दुर्वारः, अप्रामाण्यज्ञानाभावविशिष्टयद्रूपावच्छिन्नविषयकनिश्चयत्वं प्रतिबन्धकताव. च्छेदकतापर्याप्त्यधिकरणमित्येतादृशविवक्षया तादृशातिप्रसङ्गवारणे पुनर
* चन्द्रकला * प्रतिबन्धकतातिरिक्तवृत्तित्वादित्यत आह विशेषणीभूतेति । शुद्धति हृदत्वमात्रादिनेत्यर्थः। वह्नयभावेति हृद इत्याकारकशाने इत्यर्थः । विलक्षणेति । वन्यभाव-हृदत्वधर्मद्वयावच्छिन्ना या शुद्धहदत्वावच्छिन्नविषयतातो विलक्षणविषयता तन्निरूपकत्वस्येत्यर्थः । उक्तासम्भवानवकाशादिति । हृद इत्याकारकशाने केवलहृदत्वादिना वन्यभावविशिष्टहृदविषयकज्ञाने वा बहन्यभावहदत्वरूपधर्मद्वयावच्छिन्नविलक्षणविषयताकत्वविरहात् यद्पावच्छिन्नविषयताकत्वस्य सर्वस्यैव प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वादेवासम्भवानवकाशादित्यर्थः । उपसंहरति तथाचेति । अनतिरिक्तवृत्तित्वरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे चेत्यर्थः । अतिरिक्तवृत्तित्वात् = स्वव्यापकप्रकृतानुमितिबन्धकताकत्वविरहादितिदिक् ।
ययाव्याख्यातयद्विषयकत्वेनेत्यत्र तृतीयार्थावच्छेदकत्वस्यानतिरिक्तवृत्तित्वरूपस्य दीधितिकृदुक्तस्य प्रयोजनप्रदर्शनपूर्वकं अवच्छेदकत्वञ्चेहेत्यादिग्रन्थं व्याख्यातुं शंकते नन्विति । अयमेवातिप्रसंगः-पर्वतो वह्निमान् हृदो वह्निमान्वेत्यादौ केवलसाध्याभावादावतिप्रसंगः । दुर्वार इति । केवलवन्यभावत्वावच्छिन्नविषयताया अपि पर्वतादिधर्मिकवन्याद्यनुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वादिति हृदयम् ।
ननु अप्रामाण्यज्ञानाभावविशिष्टयद्रूपावच्छिन्नविषयताकत्वं प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतायाः पर्याप्तयधिकरणं तद्रूपवत्वमित्युक्त नैकदेशे वह्नयभावादावतिव्याप्तिः, भ्रमप्रमासाधारण्यानुरोधेन वह्नित्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयतानिरूपितह्रदत्वावच्छिन्नविषयताकत्वेनैव हृदादिधर्मिकवयाद्यनुमितिप्रतिबन्धकताया वक्तव्यतया तादृशविषयतासमुदायस्यैव निरुक्तप्रतिबन्धकतावच्छेदकतावच्छेदकतापर्याप्तयधिकरणत्वेन केवलवह्नयभावादिविषयतायाः ताशप्रतिबन्धकतावच्छेदकताया। पर्याप्त्यनाधिकरणत्वादियाशंक्य समाधत्ते पुनर
"Aho Shrutgyanam"