________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* दीधितिः यद्विषयकत्वेन = यादृशविशिष्टविषयकत्वेन । तेनाऽनुमितिप्रति बन्धकपक्षविशेष्यकभ्रमविषये साध्याभावादौ सद्धत्वादिनिष्ठे नातिप्रसङ्गः।
गादाधरी यद्विषयकत्वेनेति पदं व्याचष्टे यादृशविशिष्टविषयकत्वेनेति । यद्पावच्छिन्नविषयताकत्वेनेत्यर्थः । एवं च तत्त्वमित्यस्य तद्रूपावच्छिन्नत्वमर्थः ।
व्याख्यायाः प्रयोजनं स्फुटयति तेनेति । यत्प्रकारकत्वेन प्रतिबन्धकत्वमित्युक्तौ पक्षविशेषणकभ्रममादाय वह्नयभावादौ नातिप्रसङ्गसंभवः,
चन्द्रकला साधारणहृदत्वावच्छिन्नविषयतानिरूपिता या वह्नित्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयता तच्छालिनिश्चयत्वेनैव प्रतिवन्धकताया वक्तव्यतया निरुक्तनिरूप्यनिरूपकभावापन्न विषयताया एव तादृशानुमितिप्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणतया लक्ष्यीभूतवह्नयभावविशिष्टहृदादिविषयतायाः तादृशप्रतिबन्धकतावच्छेदकतापर्याप्स्यधिकरणत्वेन वह्नयभावादिविशिष्टह्रदादेविषयताया यद्विषयतापदेनोपादानासम्भवात् भवत्यसम्भव इति भावः । ___ यद्विषयकत्वेनेति पदं तृतीयान्तं यद्विषयकत्ववाक्यार्थम् । व्याचष्टे = व्याकरोति, दीधितिकार इति शेषः।
ननु याहशविशिष्ट विषयकत्वेनेत्यस्य यद्पावच्छिन्नविशिष्ट विषयकत्वेनेत्यर्थकरणे अग्रिमतत्त्वमित्यस्यानन्वयप्रसंगः, तत्त्वस्य यत्पदोपस्थाप्यमात्रनिष्ठत्वादित्यत आह एवज्वेति । यद्पावच्छिन्नविषयकत्वेनेत्यर्थकरणे चेत्यर्थः । तद्रूपावच्छिन्नत्वमर्थ इति । तथाच यद्रूपावच्छिन्नविषयकत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमित्येतावत्पर्यन्तं लक्षणार्थः पर्यवसितः । पक्षविषयकभ्रमविषये इत्यनुक्त्वा पक्षविशेष्यकभ्रमविषय इत्यभिधानस्य प्रयोजनमाह यत्प्रकारकत्वेनेति । यनिष्ठप्रकारताकत्वेनेत्यर्थकम् । पक्षेति । पक्षनिष्ठप्रकारताकम् पर्वते वह्नयभाव इत्याकारकभ्रममादायेत्यर्थः । नातिप्रसंगेति । पर्वतादिधर्मिकवहयाद्यनुमिति प्रति पर्वते वह्नयभाव इत्याकारकभ्रमात्मकनिश्चयस्य पर्वतनिष्ठप्रकारतानिरूपितवह्नयभावनिष्ठविशेष्यताकत्वेनैव प्रतिबन्धकतया यत्पदेन पर्वतादेर्धत्तुं शक्यत्वात् तत्त्वस्य तन्मात्रनिष्ठत्वेन दीधितिकारोक्तसाध्याभावात्मकवह्नयभावादावतिव्याप्तिर्न सम्भवतीति हृदयम् ।
"Aho Shrutgyanam"