________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ९१
* गादाधरी * पर्वतादावतिप्रसङ्गसंभवेऽपि यत्संबन्धावच्छिन्नयन्निष्ठप्रकारताकत्वेन
* चन्द्रकला * ननु यन्निष्ठप्रकारताकत्वेनानुमितिप्रतिबन्धकत्वं . तत्त्वमित्युक्तावपि पक्षविषयकं पर्वते वह्नयभाव इत्याकारकभ्रममादाय पर्वतेऽतिव्याप्तिरस्त्येवेति पक्षविशेष्यकभ्रमपयन्तानुसरणं व्यर्थम् । नच साध्याभावेऽतिव्याप्त्यसम्भवात् साध्याभावादावित्यभिधानमसंगतं स्यादिति वाच्यम् , अतिव्याप्तिमात्रस्यैवोक्तग्रन्थतात्पर्यात् , आधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकपर्वताभावस्य वह्नयभावादी साध्यतास्थले पर्वतादेरपि साध्यावत्वसम्भवाचेत्यत आह एर्वतादावतीति। यत्सम्बन्धेति । यत्सम्बन्धावच्छिन्नयन्निप्रकारताकज्ञानत्वेनेत्यर्थः ।
ॐ कलाविलासः * यतसम्बन्धावच्छिन्नयन्निष्ठेति । ननु पर्वतत्वसामानाधिकरण्येन वह्नः साध्यतायां धूमहेतोः सद्धेतुतया तदनुमितिं प्रति पर्वतत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभावप्रकारकपर्वतविशेष्यकज्ञानस्यैव प्रतिबन्धकतया तादृशसम्बन्धाऽप्रसिद्धयैव पक्षविशेष्यकभ्रममादाय सताबतिव्याप्तिवारणसम्भवात् कथं तादृशभ्रममादायातिव्याप्तिदत्ता इति चेन्न, पर्वतत्वसामानाधिकरण्येन वह्नयनुमितिं प्रति यथा पर्वतत्वब्यापकवह्नयभावप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभावप्रकारकज्ञानस्य प्रतिबन्धकत्वं तथा वह्नयभावव्याप्यपर्वतस्वप्रतियोगकसमवायसम्बन्धावच्छिन्नपर्वतत्वनिष्ठावच्छेदकताकविशेष्यताकशुद्धस्वरूपेण वह्वयभावप्रकारकज्ञानस्यापीति तत्सम्बन्धेन तद्वरवस्य धूमहेतौ सत्वेन तादृशभ्रममादायवातिव्याप्तस्संगमनोयत्वात् ।
नचैवं सति ताशसम्बन्धावच्छिन्नपर्वततत्वनिष्ठावच्छेदकताकशुद्धसंयोगसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नपर्वतनिष्ठप्रकारताकवलय भावव्याप्यविशेष्यकज्ञानस्यापि तादृशानुमितिप्रतिबन्धकतया शुद्धसंयोगसम्यन्धावच्छिन्नाधेयतासम्बन्धेन पर्वतवत्ताया:धूमे सत्वेन पक्षविशेषणकभ्रममादायाऽपि धूमहेतावतिव्याप्तिः सम्भवतीति वाच्यम यादृशसम्बन्धावच्छिन्नयादृशरूपनिष्ठावच्छेदकताकयाशसम्बन्धावच्छिन्नप्रकारताकत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं तदृशसम्बन्धावच्छिमातादृशरूपनिष्ठावच्छेदकताकताशसम्बन्धावच्छिन्ननिरूपकतानिरूपिताधिकरणताव - श्वस्यैव दुष्टत्वव्यवहारनियामकरवोपगमेन पक्षविशेषणकभ्रममादाय प्रसिद्धधूमहेता
"Aho Shrutgyanam"