________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
८९ __गादाधरी वह्नयभावादावतिप्रसङ्गः तद्विषयकत्वस्यापि प्रतिबन्धकतावच्छेदकघटकत्वात् , असंभवभयेन चाऽवच्छेदकतापर्याप्तिनिवेशाऽसम्भवात् , अतः
चन्द्रकला अतिव्याप्तौ हेतुमाह तद्विषयेति । वह्नयभावत्वाद्यवच्छिन्नविषयत्वस्यापीत्यर्थः । प्रतिबन्धकतेति । पर्वतादिधर्मिकवहयाद्यनुमितिप्रतिबन्धकतावच्छेदकधर्मघटकत्वादित्यर्थः। पर्वतत्वाधवच्छिन्नविषयतानिरूपितवह्नयभावत्वाद्यवच्छिन्न विषयताशालि. निश्चयत्वेनैव पर्वतादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकताया वक्तव्यतया वह्नयभावत्वाद्यवच्छिन्नविषयताया अपि प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वेन यद्विषयतापदेन वह्नयभावादिविषयताया अपि धत्तु शक्यत्वात् स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे भवति वह्नयभावादावतिव्याप्तिरिति तु परमार्थः ।
ननु यद्विषयता प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदक. तायाः पर्याप्त्यधिकरणीभूता भवति तत्त्वं हेत्वाभासत्वमित्युक्तौ न वह्नयभावादावतिव्याप्तिः, पर्वतत्वावच्छिन्नविषयतानिरूपितबह्नयभावत्वावच्छिन्नविषयताया एव तादृशा. नुमितिप्रतिबन्धकतावच्छेदकतया तादृशविषयतासमुदायस्थैव प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणत्वेन केवलवह्नयभावविषयतायास्तथात्वासम्भवादित्यत आह असम्भवभयेनेत्यादि । तथाचोक्तरीत्या यद्विषयतायां प्रतिबन्धकतावच्छेदकत्वपर्याप्त्यधिकरणत्वविवक्षणे ह्रदो वह्निमान् धूमादित्यादिस्थले वाधादौ सर्वत्राऽसम्भवःस्यात् , हृदत्वेन नद्यवगाहि-वह्नित्वेन गुञ्जावगाहि-अभावत्वेन घटावगाहि-हृदो वह्नयभाववानित्याकारकज्ञानस्यापि हृदादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकतया तादृशानुमितिं प्रति भ्रमप्रमा
* कलाविलासः ॐ नच तथापि लिंगपदोपादाने हृदो वह्निमान् वह्निमद्धदादित्यादौ लिंगविषयकवह्नयभाववद्धदविषयकानाहार्यनिश्चयाऽप्रसिद्ध्याऽव्याप्तिसम्भवे लिंगांशस्य निष्पयोजनकत्वाभिधानमसंगतमितिवाच्यम्, लिंगतावच्छेदकतायाः पर्याप्तेरनिवेशात् शुद्धहदत्वस्यापि लिंगतावच्छेदकघटकतया तद्विशिष्ट विषयकत्वस्य वयभाववद्धदनिश्चयेपि सरवात् । नघ तथापि लिंगपदस्य वैयर्थ्यसम्भवे तस्यानतिप्रयोजनकत्वाभिधानमसंगतमिति वाच्यम्, लिंगविषयकय द्विषयकनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकत्वं नास्तीतिव्यापकतारूपाभावस्य यद्विषयकनिश्चयवृत्तिभेदप्रतियोगितापच्छेदकत्वं नास्तोतिप्रतीतिसिद्धाभावाऽघटितत्वेन वैयाऽसम्भवात् तादृशष्यापकतारूपामावतो निरुक्ताभावस्य भिन्नत्वात् ।
"Aho Shrutgyanam"