________________
८८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी * नेऽपि सत्त्वेनाऽनुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वात् , अतः स्वरूपसंबन्धरूपमेव तद्वाच्यम् , तथा च पर्वतो वह्निमानित्याधनुमितिप्रतिबन्धकभ्रमविषय
ॐ चन्द्रकला कताविरहेण लक्ष्यीभूतवह्नयाघभावविशिष्टहृदादिविषयकत्वव्यापकत्वस्य तादृशानुमितिप्रतिबन्धकतायामसत्त्वात् वह्नयभावविशिष्टहदादेयत्पदेनोपादानाऽसम्भवादितिभावः । अत इति । निरुक्तासम्भवभयतः । तद्वाच्यमिति । तादृशतृतीयावच्छे. दकत्वं वाच्यमित्यर्थः । तथाच यद्विषयता प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावती तत्त्वमितिलक्षणार्थः पर्यवसितः । ... तथाचेति । स्वरूपसम्बन्धरूपावच्छेदकत्वविवक्षणे चेत्यर्थः । पर्वतो वह्निमानित्याद्यनुमितीत्यत्रादिपदात् हृदो वह्निमानित्याद्यनुमितिपरिग्रहः । भ्रमपदञ्च निश्चयपरम् , तथाच तादृशतादृशानुमितिप्रतिबन्धकनिश्चयविषयवह्नयभावे पर्वतादौ वातिव्यातिरिति समुदितार्थः ।
___ कलाविलासः ® निष्प्रयोजनकत्वञ्च फलाभावप्रयोज्येच्छाविषयत्वाभाववत्वस्वरूपमिति बोध्यम् । अथ लिंगात् ज्ञानं लिंगज्ञानमित्युपपत्त्या लिंगजन्यज्ञानपदेनानुमितेलाभात् यद्पावच्छिन्नविषयकानुमितित्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपवत्त्वमेव लक्षणं अनाहार्यत्वाद्यप्रवेशेन लधुभूतं लभ्यते इति कथं लिंगांशस्यानतिप्रयोजनकत्वमुक्तमिति चेन्न ? घटोऽवृत्तिरित्यादौ घटवद्रूपबाधेऽव्याप्तयापत्तेः, निर्मितावच्छेदककघटवदित्याकारकानुमितेरप्रसिद्धेरिति ध्येयम् ।।
वस्तुतो यादृशस्थले यद्दोपविपयिणी अनुमितिः कस्यापि न जाता तत्रत्यदोपे अव्याप्तधापत्तिरित्यस्मद्गुरुचरणाः ।।
नव लिंगविषयकयद्रूपावच्छिन्नविपयित्वाव्यापकविपयिताशून्ययद्पावच्छिन्नविषयिताशालिनिश्चयाऽप्रसिद्ध्या असम्भवसम्भवे तथाऽपि लिंगांशस्य निष्प्रयोजनकत्वाभिधानमनुचितमिति वाच्यम्, लिंगविषयिताभिन्ना या यद्पावच्छिन्नविषयित्वाच्यापकीभूता विषयिता तच्छून्यत्वनिवेशेऽसम्भवानवकाशादिति वदन्ति । वस्तुतस्तु अव्यापकीभूतविषयिताशून्यत्वं यद्पावच्छिन्नविषयकनिश्चये न निवेश्यमपितु यद्रूपावच्छिन्नविषयितायामेव श्रव्यापकीभूतविषयिताशून्यज्ञानीयत्वोपलक्षितत्वं निवेश्यते, एवञ्च लिंगविपयकदोषविषयकसमूहालम्बनज्ञानमादायैव सर्वत्र लक्षणसमन्वयसम्भवादसम्भवं विहाय लिंगपदस्थानतिप्रयोजनकत्वमभिहितमिति ध्येयम् ।
"Aho Shrutgyanam"