________________
& श्रीः अथ द्वितीयलक्षणम् ।
चिन्तामणिः १ यद्विषयकत्वेन लिङ्गज्ञानस्याऽनुमितिप्रतिवन्धकत्वं तत्वम् ।
दीधितिः लिङ्गमविवक्षितम् ।
* गादाधरो छ लिङ्गज्ञानस्येति । लिङ्गांशनिवेशस्य निष्प्रयोजनकतया तस्याऽविवक्षितत्वमाह लिङ्गमिति ।
यद्विषयकत्वेनेत्यत्र तृतीयार्थोऽवच्छेदकत्वं, तच्च यदि अनतिरिक्तवृत्तित्वरूपमिदानी निवेश्यते तदाऽसंभवः, विशिष्टस्याऽनतिरिक्ततया वह्नयभावविशिष्टह्रदादिरूपदोषविषयकत्वस्य शुद्धह्रदत्वावच्छिन्नविषयकज्ञा
चन्द्रकला* यद्विषयकत्वेन लिंगज्ञानस्यानुमितिप्रतिबन्धकत्वमितिलक्षणे लिंगपदस्याविवक्षितत्वाभिधानं हेतुपूरणेन समर्थयति लिंगांशनिवेशस्येत्यादि । निष्प्रयोजनकत्वञ्चाविवक्षितत्वे हेतुरित्यवगन्तव्यम् । तथाच यद्विषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वं तत्त्वमित्येवं द्वितीयलक्षणमिति भावः । तच्च = तृतीयार्थावच्छेदकत्वञ्च । अनतिरिक्तेति । यद्विषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकताकत्वरूपमित्यर्थः । इदानीम् = यद्विषयकत्वेनेत्यस्य यादृशविशिष्ट विषयकत्वेनेत्यर्थाऽकरणदशायाम् । असम्भवे हेतुमाह विशिष्टस्येति । वह्नयभावविशिष्ट ढ्दादेरित्यर्थः। अनतिरिक्ततया = केवलहदादिस्वरूपतया । शुद्धति । वह्नयभावाद्यविषयककेवल "हृद" इत्याकारकज्ञानेऽपीत्यर्थः । तथाचेदानी यद्विषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकताविवक्षणे सर्वत्रासम्भवःस्यात्, वन्यभावविशिष्ट-हदादेः केवल-हदाद्यात्मकतया हद इत्याकारकज्ञानेऽपि वन्यभावविशिष्ट हदविषयकत्वस्य वर्तमानतया तत्र हदादिधर्मिकप्रकृतानुमितिप्रतिबन्ध
कलाविलासः लिङ्गमविवक्षितमिति । तथाच निरुक्तलक्षणघटकीभूतं लिंगपदं अविवक्षितं निष्प्रयोजनकत्वात् इत्यनुमाने तात्पर्यम्। अत्राऽविवक्षितत्वं अर्थविषयकवोधजनकत्वनिष्ठप्रकारतानिरूपितग्रन्थकारीयेच्छाविशेष्यतावद् यद् यत् तदन्यत्वरूपम् ।
"Aho Shrutgyanam"