________________
१७
श्रीजिनदेवसूरिविरचिता वौ च पहित्य स्वामात्यमत्युत्कण्ठावशंवदौ । शकराजाननुज्ञाप्य, नयतां. स्वपुरे गुरुन् ॥६३॥ बलभानुं स्वजामेयं, भानुश्रीकुक्षिसंभवम् । प्रव्राज्य प्राकृर्ष सूरिं, तत्रैवास्थापयन्नृपः ॥६॥ प्रभावना विभाव्योचेः, पुरोधाः कृतमत्सरः । पुराऽपि निर्जितो वादे, रहो राजानमब्रवीत् ॥६५॥ अमी तपोधना यत्र, संचरन्ति महाशयाः । तत्र देव ! पदन्यासो, युष्माकं नैव युज्यते ॥६६॥ अभक्तिर्जायते शेवं, सा च श्रेयःप्रमायिनी । मेष्यन्तेऽमी तदन्यत्र, विधाप्यानेषणां पुरे ॥६॥ एवमस्त्विति राज्ञोक्ते, कारिताऽनेषणा पुरे । विलोक्य तो समन्ताच, गुरुभ्यः साघवोऽवदन् ॥६६॥ पुरोहितस्य तत् सर्वे, ते विमृश्य विजृम्भितम् । अपर्युष्यापि चलिताः, प्रतिष्ठानपुरं प्रति ॥६९॥
शातवाहनराजेन, कृताभिगमनोत्सवाः । वस्थुः मुखं पर्युषणापर्व तत्रान्यदाऽऽगमत् ॥७०॥ तान् राजोवाच पञ्चम्यां, देशेऽनेन्द्रमहो भवेत् । जनानुवृत्या गन्तव्यमस्माभिरपि तत्र च ॥७१।। एवं च चैत्यपूजादेयाघातः संभवेद विधेः । पष्ठयां पर्युषणापर्व, तदिदं क्रियतां प्रभो ! ॥७२॥ स्वाम्याह राजन् ! पर्वेद, पञ्चमी नातिवर्तते । कारणापेक्षया त्वांगपि स्यादिति हि श्रुतम् ॥७३॥ चतुर्थ्यामस्तु तातदित्युक्ते भूभुजा प्रभुः । मेने तथेति भूपस्तु, मुदितो गृहमागमत् ॥७४॥ तदाधभूद भाद्रशुद्धचतुथ्यों किल पर्व तत। चतुर्दशीदिने चातुर्मासिकानि च जज्ञिरे ७५॥
अन्यदा कर्मदोषेण, शिष्याः कालकमभोः । दुविनीता अजायन्त, शिक्षाया अप्यगोचराः ॥७६।। रात्रौ शय्यावरस्योक्त्वा, परमार्थ विमुन्य तान् । निद्रामतान् प्रचलिताः, स्वयं कनखलं प्रति ॥७॥
"Aho Shrutgyanam"