________________
१३९
श्रीविनयचन्द्रविरचिता तस्याभूव देशलः पुत्रः, पत्नी थीहणदेव्यसौ । तत्पुत्री नायकिर्जज्ञे, तेजःपालश्च तत्सुतः ॥२॥ मोहिनीति प्रिया चास्य, धनपालाभिधः सुतः । स्त्रमातुः श्रेयसे तेन, तेजःपालेन धीमता ||३|| गृहीता पर्युषणाख्यकल्पस्यासौ तु पुस्तिका ॥ संवत् ७००२ (१) ना वर्षे आसो सुदि २ दिने रुपै २१ लषामणी हती ।।
[१५] श्रीविनयचन्द्रविरचिता कालिकसूरि-कथानकम।
[ रचनासंवत् १४ शताब्दि ]
। नमः सर्वज्ञाय ॥ उत्पत्ति-विगम-ध्रौव्यत्रिपदीव्यासविष्टपम् । महेम श्रीमहावीरं, निरस्तवृजिनं जिनम् ॥१॥ अवधेनापि यः कुर्याज्जैनप्रवचनोन्नतिम् ।
स शुद्धधति प्रतिक्रान्तः, सुधीः कालिकसूरिषद् ॥२॥ तथाहि--
क्षेत्रेऽत्रैवास्ति भरते, धरावासाभिधं पुरम् । वैरिसिंहो नृपस्तत्र, मियाऽस्य सुरसुन्दरी ॥३॥ तयोः सर्वगुणाऽऽधारः, कुमारः कालकाभिधः । निर्जितत्रिदशीरूपा, स्वसो वाऽस्य सरस्वती ॥४॥ स यौवने वाहकेल्या, व्याहत्तोऽय वनस्थितम् । नत्वा गुणाकरं मूरिमौषीद धर्मदेशनाम् ॥५॥ प्रतिबुद्धोऽथ पितरावापृच्छय व्रतमग्रहीत् । क्षत्रियाणां पश्चशत्या, सरस्वत्या च संयुतः ॥६॥ गीतार्थों गुरुभिः सोऽय, स्वगच्छाधिपतिः कृतः ।
तैरेव मुनिमिः साई, विजहार बसुन्धराम् ॥७॥ 1 °मा चास्व PI
"Aho Shrutgyanam"