________________
१३१
श्रीरामभद्रविरचिता आदेशात तैश्च सरीणां, शाखिभिजितकाशिभिः । चतुर्दिक्षु स्वकैः सैन्यैर्गत्वाऽथ रुरुधे पुरीम् ॥६३।। यन्त्रशस्खादिभिस्तत्र, क्रियमाणे रणेऽनिशम् । विश्रामो नाभवत् कश्चिदुभयोरपि सैन्ययोः ॥१४॥ अन्यदा शून्यमालोक्य, वप्रं सर्वत्र शाखिभिः । किमेतदिति विज्ञप्ता आदिशनिति सूरयः ॥६५॥ अष्टमीतिथिरघाऽस्यामवन्तीश उपोषितः । सर्वदा गर्दभी वियां, साधयत्येष निश्चितम् ॥६६॥ तद् विलोकयत कापि, खरीमहालके स्थिताम् । विलोकयद्भिदृष्टा सा, सूरीणामय दर्शिता ॥६७॥ मूरिमिर्भणितं भद्रा, एषा मालबभूभुजा । समर्थिते मन्त्रजापे, महाशब्दं करिष्यति ॥६८|| तं श्रोष्यत्यरिसैन्ये, यद् द्विपदं वा चतुष्पदम् । तत् सर्व रक्तमुद्वम्य, पतिष्यत्यवनीतले ॥६९।। सजीवं सर्वमादाय, द्विपदादि निशामुखे । द्विगन्यूतिप्रमाणं तद्, यूयं व्रजत सत्वरम् ॥७०॥ साष्टश मे योधानां, ददध्वं शब्दवेधिनाम् । तैस्तथेतिकृतं दृष्टपत्यये को विसंवदेन ? ।।७१॥ तथोक्ताः सूरिभिर्योधाः, शब्दार्थ गर्दभी निजम् । यदा विकासयत्यास्यं, सर्वैरप्येकहेलया ॥७२॥ तदैवाकृतशब्दाया युष्माभिः शीघ्रवेषिभिः । नाराचनिचयैरस्याः, पूरणीयं मुखं क्षणात् ॥७३॥ कृवस्वरायाचामुष्या भवन्तोऽपि न किश्चन । अमत्ताः स्थ तद् यूयं, सज्जीकृतशरासनाः ॥७४॥ ततश्च भुंकरणार्थ, व्यात्तं वदनमेतया । समं मुक्तः पृषक्तैस्ते, तूणपूरमपूरयत् ॥७५॥ इतशक्तिः खरीविद्या, साधकस्यैव मस्तके । कृत्वा भूत्रं पुरीषं च, दत्वा पादं ययौ कचित् ॥७६|| सूरिभिः शाखिनः प्रोक्ता गृही(ही)ध्वं सांपतं पुरीम् । एतावदेव सामथ्यममुष्याऽऽसीद् गतं च तत् ॥७॥ माकारं खण्डशः कृत्वा, साखिनः प्राविशन् पुरीम् । बचा गर्दभिल्लं चामी, सूरेः पादायतोऽक्षिपन् १७८॥ सूरयोऽप्यब्रुवन् पाप !, यतिन्या[:] कृतस्त्वया । व्रतस्य भङ्गः शुद्धाया यद् वयं च तिरस्कृताः ॥७९॥
"Aho Shrutgyanam"