________________
२३०
श्रीरामभद्रविरचिता सन्स्यन्याः किं न ते देव !, मन्दिरे मदिरेक्षणाः । यदेवं भावहीनायां, बतिन्यां प्रेमनिर्भरः ॥३०॥ रत्यात्मकं भवेत् सौख्यं !, सा च भावात्मका स्फुटम् । मुभूषु भावहीनासु, ततः स्यात् कीदृशी रतिः १ ॥३१॥ इत्यादिमिः सामवाक्यस्तैरुक्तः सचिवैः कुधा । प्रत्युत माज्वलद् भूपः, सपिः सिक्तः(क्त) कृशानुवत् ॥३२॥ ज्ञात्वा चिकित्स्यन्तं मूरिः, सामर्ष चिरगात् पुरात् । कौबेयों शककूलाख्यं, पापकूलं च स क्रमात् ॥३३॥ सामन्तास्तत्र ये केचित् , ते शाखिन इति श्रुताः । यः सामन्तपतिः शाखाऽनुशाखी स तु भण्यते ॥३४॥ शाखिनस्तत्र चैकस्य, पार्थ तस्थुर्गणाधिपाः । आवर्जितश्च तैरेष, मन्त्र-तन्त्रादिभिः परम् ॥३५।। शाखानुशाखिनो दूत एत्याऽस्मै शाखिनेऽन्यदा । समर्प्य प्राभृतं स्थित्वा, क्षणं चागानिजं पुरम् ॥३६॥ ढोकनालोकनाकृष्णवक्त्रं तं मूरिरालपत् ।। स्वामिप्रसादे ते राजन् !, किमेवं कृष्णता मुखे ॥३७॥ तेनोचे न प्रसादोऽयं, कोपो यस्मै स कुप्यति । तस्मै संप्रेषयत्येवमिमां नामाङ्कितां छुरीम् ॥३८॥ दुर्लयशासनः स्वामी, क्रुद्धः केनापि हेतुना । अतः स्वाऽऽत्मा मया वध्योऽवश्यं शस्त्रिकयाऽनया ॥३९॥ . सूरिणोचे तवैवायं, रुष्टोऽन्यस्यापि वा विभुः । सोऽब्रवीत् पञ्चनवते रुष्टोऽन्येषां च शाखिनाम् ॥४०॥ दृश्यतेऽत्र यतः षण्णवत्यः क्षुरिकान्तरे । आचार्य प्राह यद्येचं, ताकारय तान् नृपान् ॥४१॥ यानपात्रैः समुत्तीर्य, सिन्धुस्रोतस्विनी ततः । गत्वा सुराष्ट्राविषये, तस्थुः सर्वे यथायथम् ॥४२॥ कृते तेनेति ते सर्वेऽप्याजग्मुस्तत्र शाखिनः । सूरीणामुपदेशेन, चेलुश्च सपरिच्छदाः ॥४॥ ततोऽतीतासु वर्षासु, माप्ते शरदि सूरिभिः । स्वसमीहितसिद्धयर्थ, प्रोक्तास्ते शाखिनोऽन्यदा ॥४४॥ यथाऽपास्तोधमाः किं भोः :, यूयं तिष्ठत समितम् । तेऽप्यूचुर्यद् वयं कुर्मः, कृत्यं तन्नः समादिश ॥४५॥ सूरिणाऽभाणि गृहीध्वं, पुरी पुष्पकरण्डिनीम् । निर्वाहस्तत्र रो भावी, भूयान् मालपनीहतिः ।।४।।
"Aho Shrutgyanam"