________________
कालिकाचार्यकथा । सस्यां पुरि श्रीरम्यायामल्पसत्वो जडात्मकः । आसीद गर्दमिलो राजा, राजीविन्यामिव प्लवः ॥१४॥ राजपाटयां गतोऽन्येधुः, सती साध्वाँ सरस्वतीम् । अपश्यन् नृपवर्मस्थां, च्युतः स नृपवर्त्मतः ॥१५॥ वियोगेन स्मरस्येयं, किं रतिर्बतमग्रहीत् । व्रतच्छममहो रूपं, विषाऽऽतमिवाऽमृतम् ॥१६॥ स्मराऽऽतुरेण तेनति, क्षिप्ता सऽन्तःपुरे निजे । हा भ्रातः कालकाचार्य !, रक्षेलत्याधाल(त्याल ?)पन्(ती ?) मुहुः ॥१७॥ नानोतिभिः सूरिभिश्च, भणितस्तां स नामुचत् । आसन्नव्यसनच्छन्नमतीनां क शुभं मनः ॥१८॥ चतुर्विधेन संघेन, राजपुम्भिश्च नीतिमिः । भणितोऽपि मुहुर्यावत् , प्रपेदे न स किञ्चन ॥१९॥ क्रद्धोऽय कालिकाचार्यः, क्रीडत्कल्पान्तभीषणः । तावत् समक्षं संघस्य, प्रतिज्ञामकरोदिमाम् ॥२०॥ संघस्य प्रत्यनीका ये, गुरूणां घातकाच ये । तेषां गतिमहं यामि, यद्येम(न) नृपपांशनम् ॥२१॥ उन्मूलयामि नो राज्यान्मूलाद् वृक्षमिवोत्थितम् । बतच्छन्नमपि क्षात्र, तेजो हि स्फ(स्फुरति स्फुटम् ॥२२॥ आचार्यश्चिन्तयत्येष, स्वभावात् प्रौढपौरुषः। किं पुनः कृतसाहाय्यो, गर्दभ्या विषयाऽनिशम् ॥२३॥ उपायैरु(रेवो पाटयोऽसावित्युन्मत्त इवाभवत् । पलपंथाऽभ्रमत् पौरः, परीतः परितः पुरि ॥२४॥ यदि गर्दभिल्लो राजा, ततो मे किमतः परम् । मुनिविष्टा यदि पुरी, ततो मे किमतः पु(पारम् ॥२५॥ यदि शून्यगृहे स्वापस्ततो मे किमतः परम् । भोजनं यदिवा भैक्ष, ततो मे किमतः परम् ॥२६॥ इत्यादि प्रलपन्तं तं, वीक्ष्याऽऽहुः कृपया प्रजाः । धिग् भूपं गणभृद् येन, लवितो दुर्दशामिति ॥२७|| श्रुत्वेति घिक्रियां राजा, विज्ञप्तः सचिवैः पुनः । कुरु प्रसाद भूपेन्द्र !, विमुञ्चतां तपस्विनीम् ॥२८॥ निन्दतीह जनोऽतीव दुर्यशश्चान्यराजमु । अमुत्र नरकं घोरं, बतिनीम्रतभङ्गतः ॥२९॥
"Aho Shrutgyanam"