________________
कालिकाचार्यकथा-संस्कृत-गूर्जरविभागः।
श्रीदेवेन्द्रसूरिविरचिता कालिकाचार्यकथा।
( रचनासंवत् १३ शताब्दि)
श्रीवर्द्धमानमानम्य, कालकर्षेः कयां ब्रुवे । पञ्चमीतश्चतुर्यो च, यश्चक्रे पर्युषणामहम् ॥१॥ इहैव जम्बूद्वीपश्रीनेत्रे क्षेत्रेऽस्ति भारते । धारावासं पुरं यत्र, जनः सर्वोऽपि धार्मिकः॥२॥ तत्रारिकरिसिंहोऽभूदु , वेरिसिंहो नृपोऽस्य तु । राज्ञी रूपजिताऽमर्त्यसुन्दरी सुरसुन्दरी ॥३॥ तयोः सर्वगुणाधारः, कुमारः कालकाहयः । सरस्वल्पनुजा चास्य, प्रज्ञापास्तसरस्वती ॥४॥ क्रीडार्थमन्यदोधानं, मित्रपश्चशतीतः । हयाख्दः कुमारोऽगाजयन्त इब नन्दनम् ॥५॥ तत्र दिक्कुमुदानन्दप्रदमिन्दुमिवारको । गुणाकरगुरुं दृष्ट्वा, बवन्दे निषसाद च ॥६॥ ततः संसारवैराग्यकारिणी धर्मदेशनाम् । श्रुत्वा कुमारचारित्रसाम्राज्योत्कण्ठितोऽभवत् ॥७॥ अथो कथञ्चित् पितरौ, मुत्कलाप्य नृपाङ्गभूः । स्वस्वमित्रयुतः सूरै(रे)व्रतं रत्नमिवाददे ॥८॥ क्रमेणाधीतसिद्धान्तः, कालकर्षिः निजे पदे । गुरुणा स्थापितो यस्माद्, गुणगौरवकारणम् ।।९।। अथ श्रीकालिकाचार्यः, सूर्यवत् सपरिच्छदः । भव्यान्नबोधं विदधय्य, ययावुज्जयिनी पुरीम् ॥१०॥ तत्र लोकचकोरौघान् , देशनामृतदानतः । तमो निरस्य सूरीन्दुर्सदिवानुदपादयन ॥११॥
"Aho Shrutgyanam"