________________
मन्त्रियशःपालविरचितं
[प्रथमो. थारापद्रपुरं निसर्गचतुरं चैत्येषु सर्वोत्तम
किञ्चैतजिनमन्दिरं रसमयं चौलुक्यवृत्तं स्वयम् । जङ्घालः कविराजवर्त्मसु यशःपालः प्रवीणः कवि
मट्टयाः कुशलाः कलासु तदहो ! दिष्टया प्रसन्नो विधिः ॥५॥ नटी-(१)अज्ज ! एवं नेदं । अवरं पि किं पि पुच्छिस्सं । सूत्रधारः ---(सोल्लासं) विस्रब्धं ब्रूहि । नटी-(२) किं ति एदिणा कविंदेण सयं प्येव अप्पा न वण्णिदो।
सूत्रधारः--आर्ये ! तस्य खल्वशेषसत्पुरुषपरिषच्छिरःशेखरस्येतरतरलकविसार्थवन्न स्ववर्णनघण्टापथे निरर्गलं वल्गति वाणीवाणिणी । असौ हि परैरेव स्तूयमानमात्मानं लभते । तथा च
श्रीमोढाह्वयवंशजः स जयति श्रीमान् यशःपाल इ
त्युद्यवृत्तगुणेन पूरुषमणिस्तेजस्विनामग्रणीः । स्वच्छत्वात्प्रतिबिम्बडम्बरमभूत्केषां न यत्राऽद्भुते भित्त्यान्तर्गुणसंक्रमं विहितवान् क्लेशान्पुनः कश्चन ॥ ६ ॥
(इति नेपथ्ये गीयते ।) (३) सुपसन्नचंदपायस्स भोदु भई वसंतरायस्स ।
भुवणम्मि लडपसरो दलिओ सिसिरो रिऊ जेण ॥७॥ सूत्रधारः-(श्रुत्वा सप्रमोदं ) अये ! कथमुपक्रान्तमेव कुशीलवैः, यदियं निस्तन्द्रचन्द्रमाकिरणधोरणीधवलितधरातलस्य लब्धप्रसरशिशिरवैरिविजयावर्जितोर्जितकीर्तेः ऋतुचक्रवर्तिनोऽवतारव्याजेनैदंयुगीनजैनसङ्घमध्यमूर्द्धन्यश्रीहेमचन्द्रगुरुपादप्रसादप्रादुर्भूतप्रबोधस्य जनितजगद्रोहमोहरिपुराजपराजयप्ररोहदसपत्नवीरव्रतस्य सकलमहीपालमौलिलीलालालितशासनस्य स्वामिनः
(१) आर्य ! एवमेतत् । अपरमपि किमपि प्रक्ष्यामि । (२) किमित्येतेन कवीन्द्रेण स्वयमेवात्मा न वर्णितः ।
सुप्रसनचन्द्रपादस्य भवतु भद्रं वसन्तराजस्य । भुवने लब्धप्रसरो दलितः शिशिर ऋतुर्येन ।।
"Aho Shrutgyanam"