________________
मोहराजपराजयम् । नटी-(१) अन्ज ! अवि अस्थि को वितादिसो अहिणवपबंधो जस्स अहिणयरसेण भगवदो संघस्स सासणं संपाडिय कयत्थो हैवसि ।
सूत्रधारः-(स्मृतिमभिनीय) आर्ये ! अस्त्येव श्रीमोढवंशावतंसेन श्रीअजयदेवचक्रवर्तिचरणराजीवराजहंसेन मन्त्रिधनदेवतनुजन्मना रुक्मिणीकुक्षिलालितेन सर्वतोमुखनिस्तुषशेमुषीविलासवासभवनेन निर्व्याजराजनीतिनितम्बिनीवदनविभ्रममणिदर्पणेन व्यापारिकमलाकुचकलशमुक्ताफैलहारयष्टिना सारसारस्वतोदारसारणीसेकसुकुमारस्मेरकाव्यकन्दलप्ररोहेण परमार्हतेन यश:पालकविना विनिर्मितं मोहराजपराजयो नाम नाटकम् ।
नटी-(साकूतं ) (२) अज ! मोहरौजपराजउ त्ति नामं पि दाव सुंदरं । ता किमित्थ वन्नीयदि त्ति सोदुमिच्छामि । सूत्रधारः-(सोत्साहं) आर्य ! समासतः श्रोतुमवधेहि तावत् । इह हिपद्मासद्म कुमारपालनृपतिर्जज्ञे स चन्द्रान्वयी
जैनं धम्ममवाप्य पापशमनं श्रीहेमचन्द्रागुरोः । निर्वीराधनमुज्झता विद्धता द्यूतादिनिर्वासनं
येनैकेन भटेन मोहनृपतिर्जिग्ये जगत्कण्टकः ॥४॥ नटी-(३)अज ! जदि एवं ता एदस्स राएसिणो परमबोधिसत्तस्स अञ्चन्भुदचरिदेण विच्छाइदाई चिरंदणमहानरिंदललिदाई।
सूत्रधारः-आर्ये ! एवमेवैतत्, कः सन्देहः । किश्चापरमपि किमेकमत्र न प्रवेकमाकलयामः । यतः
(१) आर्य ! अप्यस्ति कोऽपि तादृशोऽभिनवप्रबन्धो यस्याभिनयरसेन भगवतः सङ्घस्य शासनं संपाद्य कृतार्थों भवसि ।
(२) आर्य ! मोहराजपराजय इति नामापि तावत्सुन्दरम् । ततः किमत्र वर्ण्यते इति श्रोतुमिच्छामि।
(३) आर्य ! यद्येवं तदा एतस्य राजर्षेः परमबोधिसत्वस्यात्यद्भुतचरितेन विच्छायितानि चिरन्तनमहानरेन्द्रललितानि ।
A अभिण.२ A भोसि. ३ B&C फलयष्टिना. A मोहरायपराजय त्ति.६ A वनीयविहि त्ति. ६ B&Cोत्रे श्रो..
"Aho Shrutgyanam"