________________
१२९
ऽङ्कः]
मोहराजपराजयम् । पापकेतुः-भद्र कदागम ! प्रष्टव्योऽसि । किं स्वानुरागात्परिणिन्ये विवेकदुहितरं नृपः ? उत महानसौ नरेन्द्रः स्वाजन्यं ग्राहयितव्य इति विवेकः कन्यामदात् ।
कदागमः-(१) नियाणुराएण पणपूरणपुव्वयं परिणीदा निवेण विवेयमुदा । गुरुआएसनामनिमित्तियवयणपचयादो य ।
पापकेतुः-किमादिष्टं नैमित्तिकेन ? । कदागमः
विवेकराजतनयां परिणीय कृपां नृपः । भूर्भुवःस्वस्त्रयीश
( इत्योक्ते भयं नाटयति । ) मोहराजः-भद्र कदागम ! अच्छलं भवतो विज्ञपय यथावृत्तम् । पापकेतुः-भद्र ! मा भैषीः । कठोरहितवादिनो हि प्रणिधयो भवन्ति। कदागमः
मोहराजं विजेष्यते ॥ ५४॥ इति । पापकेतुः--(स्वगतं ) सर्वथा प्रतापक्षयोऽस्मत्स्वामिनः । प्रतापवृद्धिYर्जरराजस्य ।
मोहराजः-एवंविधाभिर्बिभीषिकाभिने खल्वितरवच्छक्यं भयमुत्पादयितुं मोहराजस्य । अथवा
विधिर्मयैव दुर्बुद्धिः स्वप्रजायां विडम्बितः।
तन्मन्ये मय्यनात्मज्ञः सोऽयमेवं व्यवस्यति ॥ ५५ ॥ भवतु, तमपि प्रतिकरिष्ये ।
(नेपथ्ये उत्सारणा क्रियते ।) मोहराजः-संप्रासा एवैते रागकेसरिप्रभृतयः।
(ततः प्रविशन्ति रागप्रभृतयः ।) (१) निजानुरागेण पणपूरणपूर्वकं परिणीता नृपेण विवेकसुता । गुर्वादेशनामनैमित्तिकव
चनप्रत्ययतश्च ।
B& C नेमित्तिय
"Aho Shrutgyanam"