SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । १०९ राजा - अरे अलीकवाचाल ! विरम विरम । भवादृशां हि परदोषोद्वारैरेव गर्वगरिमासमुज्ज्रम्भते । ननु त्वत्सेवयैव निखिलमपि क्षयं गतं यादवकुलं वनराजकुलं च । अथवा कस्त्वया सह उक्तिप्रत्युक्तिप्रपञ्चः ? । यतो भवान् जाङ्गलकश्च जीवमयावित्यपि त्याज्यावेव धर्मात्मनाम् । उक्तं चमधे मांसे मधुनि च नवनीते तक्रतो बहिनते । उदयन्ति विपद्यन्ते तद्वर्णा जन्तवस्तत्र ॥ ४८ ॥ मद्यशेखरः - (स्वगतं ) ( १ ) पत्तेमित्तो भणिदीहिं, जं भोदि तं भोदु । मारिः -- ( २ ) देव ! राजशेखर ! एत्थ संसारे अनेके राजानो चक्कवट्टिनो अतिकंता, न पुन केनापि हं निलोकता । अपरं च किं मए विलूपं कथं ? जं एतिसं रोसं करेति भट्टका । अपि च--- जीवो जीवाहारो एस सभावो खु सकलसंसाले । एवं सुनितून कुतो विचारना भोति पुंलिसान ? ॥ ४९ ॥ दसलधनलीसलेनं मह सेवानिच्चलेन निच्चं पि । अहह ! सलेनं निहतो सवनलिसिसुतो मुहुत्तेन ॥ ५० ॥ राजा - ( सक्रोधं ) आः पापे ! किमद्यापि प्रगल्भसे ? | दाण्डपाशिक ! एतच्चतुष्टयं सपरिवारं यथोक्तस्थित्या निर्वासयेति । दाण्डपाशिकः - ( ३ ) जं देवो आणवेदि । मारिः- - ( अपवार्य ) ( ४ ) पुत्तका ! जीवएदं विसुमलित म्हि । ननु अम्हे राजकुले दव्वं पूरेमो । ( १ ) पर्याप्तमात्रो भणितिभिः, यद्भवति तद्भवतु । (२) देव ! राजशेखर ! अत्र संसारेऽनेके राजानश्चक्रवर्त्तिनोऽतिक्रान्ताः, न पुनः केनाप्यहं निराकृता । अपरं च किं मया विरूपं कृतं यदीदृशं रोषं करोति भर्त्ता । अपि च- जीवो जीवाहार एष स्वभावः खलु सकलसंसारे । एवं ज्ञात्वा कुतो विचारणा भवति पुरुषाणाम् ? ॥ दशरथनरेश्वरेण मम सेवानिश्चलेन नित्यमपि । अहह ! शरेण निहतः श्रवणर्षिसुतो मुहूर्त्तेन ॥ ( ३ ) यद्देव आज्ञापयति । ( ४ ) पुत्रकाः ! जीवतैतद्विस्मृताऽस्मि । ननु वयं राजकुले द्रव्यं पूरयामः । १ C समेत्तो. २ ( नावि ३ A एक ४ C विल्वं ५ A यं. ६ C मुनिकन. ७ मुलिलान. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy